Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 391

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथो घौरः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
गृ꣣णे꣡ तदि꣢꣯न्द्र ते꣣ श꣡व꣢ उप꣣मां꣢ दे꣣व꣡ता꣢तये । य꣡द्धꣳसि꣢꣯ वृ꣣त्र꣡मोज꣢꣯सा शचीपते ॥३९१॥

गृ꣣णे꣢ । तत् । इ꣣न्द्र । ते । श꣡वः꣢꣯ । उ꣣पमा꣢म् । उ꣣प । मा꣢म् । दे꣣व꣡ता꣢तये । यत् । हँ꣡सि꣢꣯ । वृ꣣त्र꣢म् । ओ꣡ज꣢꣯सा । श꣣चीपते । शची । पते ॥३९१॥

Mantra without Swara
गृणे तदिन्द्र ते शव उपमां देवतातये । यद्धꣳसि वृत्रमोजसा शचीपते ॥

गृणे । तत् । इन्द्र । ते । शवः । उपमाम् । उप । माम् । देवतातये । यत् । हँसि । वृत्रम् । ओजसा । शचीपते । शची । पते ॥३९१॥

Samveda - Mantra Number : 391
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविदारक परमात्मन् ! अहम् (देवतातये) उपासनायज्ञस्य पूर्तये। देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। (ते) तव (उपमाम्२) सर्वेषामुपमानभूतम् (तत्) सर्वविदितम् (शवः) बलम् (गृणे) प्रशंसामि। गॄ शब्दे, क्र्यादिः। गृणातिः अर्चतिकर्मा। निघं० ३।१४। (यत्) यस्मात्, हे (शचीपते) अतिशयकर्मशूर परमेश ! शची इति कर्मनाम। निघं० २।१। त्वम् (ओजसा) स्वकीयेन तेजोमयेन बलेन (वृत्रम्) पापान्धकारम्, यद्वा योगसाधनायां समागतं व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनादिकं विघ्नजातम् (हंसि) विनाशयसि ॥१॥
Essence
परमात्मनो बलस्य शंसनेन स्वयमपि बलिनो भूत्वावयं जीवनमार्गे योगमार्गे वा समागतान् सर्वानपि विघ्नान् शत्रूंश्च विनाश्य परमां सिद्धिं प्राप्नुयाम ॥१॥
Subject
अथ पञ्चमः प्रपाठकः। तत्राद्ये मन्त्रे परमात्मनो बलं प्रशंसति।
Footnote
१. ऋ० ८।६२।८, गृणे तदिन्द्र ते शव उपमं देवतातये। यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥ इति पाठः, छन्दः बृहती। २. उपमां सर्वबलानामुपमानभूतम्, अत्यन्तोत्कृष्टमित्यर्थः—इति वि०। अन्तिकम्—इति भ०, सा०। उपमे इत्यन्तिकनाम। निघं० २।१६।