Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 390

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣡खा꣢य꣣ आ꣡ शि꣢षामहे꣣ ब्र꣡ह्मेन्द्रा꣢꣯य व꣣ज्रि꣡णे꣢ । स्तु꣣ष꣢ ऊ꣣ षु꣢ वो꣣ नृ꣡त꣢माय धृ꣣ष्ण꣡वे꣢ ॥३९०॥

स꣡खा꣢꣯यः । स । खा꣣यः । आ꣢ । शि꣣षामहे । ब्र꣡ह्म꣢꣯ । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । स्तु꣣षे । उ꣣ । सु꣢ । वः꣣ । नृ꣡त꣢꣯माय । धृ꣣ष्ण꣡वे꣢ ॥३९०॥

Mantra without Swara
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु वो नृतमाय धृष्णवे ॥

सखायः । स । खायः । आ । शिषामहे । ब्रह्म । इन्द्राय । वज्रिणे । स्तुषे । उ । सु । वः । नृतमाय । धृष्णवे ॥३९०॥

Samveda - Mantra Number : 390
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः ! आगच्छत, यूयं वयं च संभूय (वज्रिणे) दुष्टेषु दुष्टवृत्तिषु वा दण्डधराय (इन्द्राय) जगच्छासकाय परमात्मने (ब्रह्म२) स्तोत्रम् (आशिषामहे) इच्छेम, समर्पयेमेत्यर्थः। आङः शासु इच्छायाम् इति धातोर्लेटि रूपम्। धातोरुपधाया इकारादेशश्छान्दसः। अथ प्रत्यक्षस्तुतिः—हे परमात्मन् ! (नृतमाय) नेतृतमाय, (धृष्णवे) पापानां धर्षणशीलाय (वः) तुभ्यम् (सु स्तुषे उ) सम्यक् स्तौमि खलु। स्तुषे इति स्तौतेर्लेटि उत्तमैकवचने रूपम्, मध्ये ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिबागमः। संहितायाम् ‘ऊ’ इत्यत्र ‘इकः सुञि। अ० ६।३।१३४’ इति दीर्घः। ‘सुञः। अ० ८।३।१०७’ इति सोः षत्वम् ॥१०॥
Essence
सर्वैः सखिभिः परस्परं संभूय सार्वजनिकरूपेण राजराजेश्वराय परमात्मने तन्महिमगानपराणि स्तुतिगीतानि गेयानि ॥१०॥ अत्रेन्द्रस्य जगदीश्वरस्य महिमगानपूर्वकं तं प्रति स्तोत्रमर्पयितुं प्रेरणादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति चतुर्थे प्रपाठके द्वितीयार्द्धे पञ्चमी दशतिः ॥ समाप्तश्चायं चतुर्थः प्रपाठकः ॥ इति चतुर्थेऽध्याये चतुर्थः खण्डः ॥
Subject
अथ परमात्मने स्तोत्रमर्पयितुं सखीनाह्वयति।
Footnote
१. ऋ० ८।२४।१ ‘शिषामहि’ इति पाठः। अथ० १८।१।३७, ऋषिः अथर्वा। २. ब्रह्म अन्नं हविः स्तोत्रं वा—इति भ०।