Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 39

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्ने꣣ ज꣡रि꣢तर्वि꣣श्प꣡ति꣢स्तपा꣣नो꣡ दे꣢व र꣣क्ष꣡सः꣢ । अ꣡प्रो꣢षिवान्गृहपते म꣣हा꣡ꣳ अ꣢सि दि꣣व꣢स्पा꣣यु꣡र्दु꣢रोण꣣युः꣢ ॥३९॥

अ꣡ग्ने꣢꣯ । ज꣡रि꣢꣯तः । वि꣣श्प꣡तिः꣢ । त꣣पानः꣢ । दे꣣व । रक्ष꣡सः꣢ । अ꣡प्रो꣢꣯षिवान् । अ । प्रो꣣षिवान् । गृहपते । गृह । पते । महा꣢न् । अ꣣सि । दि꣣वः꣢ । पा꣣युः꣢ । दु꣣रोणयुः꣢ । दुः꣣ । ओनयुः꣢ । ॥३९॥

Mantra without Swara
अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः । अप्रोषिवान्गृहपते महाꣳ असि दिवस्पायुर्दुरोणयुः ॥

अग्ने । जरितः । विश्पतिः । तपानः । देव । रक्षसः । अप्रोषिवान् । अ । प्रोषिवान् । गृहपते । गृह । पते । महान् । असि । दिवः । पायुः । दुरोणयुः । दुः । ओनयुः । ॥३९॥

Samveda - Mantra Number : 39
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपक्षे। हे (जरितः) सज्जनगुणप्रशंसक ! जरितेति स्तोतृनाम। निघं० ३।१६। स्तुतिश्च गुणप्रशंसनम्। (अग्ने) परमात्मन् ! त्वम् (विश्पतिः) प्रजापालकः असि। हे (देव) ज्योतिष्मन् ! त्वम् (रक्षसः२) राक्षसान् क्रूरान् हिंसकान् जनान् (तपानः) संतापयन् भवसि। हे (गृहपते) ब्रह्माण्डरूपस्य गृहस्य स्वामिन् ! (अप्रोषिवान्) ब्रह्माण्डगृहात् कदापि प्रवासमकुर्वन्। प्र पूर्वो वस धातुः प्रवासे वर्तते। ततः क्वसुः। (दिवः पायुः) प्रकाशमानस्य द्युलोकस्य जीवात्मनो वा रक्षकः। पा रक्षणे, कृवापा०’ उ० १।१ इति उण् प्रत्यये, आतो युक्०’ अ० ७।३।३३ इति युगागमः। (दुरोणयुः) दुरोणं गृहं परेषां कामयते इति दुरोणयुः सर्वेषां निवासप्रदः, त्वम्। दुरोण इति गृहनाम, दुरवा भवन्ति दुस्तर्पाः इति निरुक्तम् ४।५। छन्दसि परेच्छायां क्यच उपसंख्यानम्।’ अ० ३।१।८ वा० इति परेच्छायां क्यच्। (महान्) परममहिमोपेतः (असि) वर्तसे। अथ द्वितीयः—राजपक्षे। हे (जरितः) परमेश्वरस्य स्तोतः (अग्ने) राष्ट्रनायक राजन् ! त्वम् (विश्पतिः) प्रजानां पालकः असि। हे (देव) दानादिगुणैर्देदीप्यमान राजन् ! त्वम् (रक्षसः) दुष्टशत्रून् (तपानः) संतापयन् भवसि। हे (गृहपते) राष्ट्रगृहस्य स्वामिन् ! (अप्रोषिवान्) राष्ट्रात् प्रवासम् अकृतवान्, (दिवः पायुः) विद्यादिप्रकाशस्य रक्षकः, (दुरोणयुः) राष्ट्रगृहस्य समुन्नतिं कामयमानः त्वम् (महान्) अक्षयकीर्तिः (असि) विद्यसे ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥
Essence
यथा परमेश्वरः सज्जनान् रक्षन्, दुर्जनान् दण्डयन् विश्वेषां समुन्नतिं कामयते तथैव राजाऽपि प्रजाः पालयन्, शत्रूनुन्मूलयन् राष्ट्रमुत्कर्षं नयेत् ॥५॥
Subject
अथ परमेश्वरस्य नृपतेश्च महत्त्वं वर्णयति।
Footnote
१. ऋ० ८।६०।१९ तपानो, गृहपते इत्यत्र क्रमेण तेपानो, गृहपतिर् इति पाठः। २. रक्षसः राक्षसान्। रक्षःशब्दः पुंल्लिङ्गोऽपि दृश्यते छन्दसि—प्रति ष्म रक्षसो दह (ऋ० १०।८७।२३), यो वा रक्षाः शुचिरस्मीत्याह (ऋ० ७।१०४।१६)—इति भ०। रक्षसः राक्षसानां तपानः सन्तापकः—इति सा०।