Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 389

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢꣫ एक꣣ इ꣢द्वि꣣द꣡य꣢ते꣣ व꣢सु꣣ म꣡र्ता꣢य दा꣣शु꣡षे꣢ । ई꣡शा꣢नो꣣ अ꣡प्र꣢तिष्कुत꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥३८९॥

यः꣢ । ए꣡कः꣢꣯ । इत् । वि꣣द꣡य꣢ते । वि꣣ । द꣡य꣢꣯ते । व꣡सु꣢꣯ । म꣡र्ता꣢꣯य । दा꣣शु꣡षे꣢ । ई꣡शा꣢꣯नः । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः । इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ ॥३८९॥

Mantra without Swara
य एक इद्विदयते वसु मर्ताय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥

यः । एकः । इत् । विदयते । वि । दयते । वसु । मर्ताय । दाशुषे । ईशानः । अप्रतिष्कुतः । अ । प्रतिष्कुतः । इन्द्रः । अङ्ग ॥३८९॥

Samveda - Mantra Number : 389
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः एकः इत्) एक य एव विद्यते, किञ्च, यः (दाशुषे मर्त्याय) स्वकीयं धनं परेषां हिताय दत्तवते मनुष्याय (वसु) धनम् (विदयते) विशेषेण ददाति। दय दानगतिरक्षणहिंसादानेषु भ्वादिः। (अङ्ग२) हे भद्र ! सः (ईशानः) सकलब्रह्माण्डस्याधीश्वरः (अप्रतिष्कुतः३) अप्रतिष्कृतः अप्रतिस्खलितो वा। अप्रतिष्कुतः अप्रतिष्कृतोऽप्रतिस्खलितो वा। निरु० ६।१६। (इन्द्रः) इन्द्रनामा परमेश्वरोऽस्ति ॥९॥४
Essence
परमेश्वर एक एव वर्तते, तत्समस्तदधिको वाऽन्यः कश्चन नास्त्येव। धनदः स परोपकाराय धनदात्रेऽधिकाधिकं धनं प्रयच्छति ॥९॥
Subject
अथ परमेश्वरस्य धनदत्वं वर्ण्यते।
Footnote
१. ऋ० १।८४।७, अथ० २०।६३।४, साम० १३४१। २. अङ्गेति निपातः पदपूरणः—इति वि०। अङ्ग सत्यम्—इति भ०। अङ्गेति क्षिप्रनाम—इति सा०। अङ्गेति क्षिप्रनाम, अञ्चितमेवाङ्कितं भवति। निरु० ५।१७। ३. ष्कु आप्रवणे। आप्रवणम् आगमनम्, प्रवतेर्गत्यर्थत्वात्। अन्येन अप्रतिगतः अप्रतिष्कुतः। युद्धेऽभियुञ्जानः अन्येन अप्रत्यभियुक्तः, अपूर्वाभियोद्धा इत्यर्थः—इति वि०। अप्रत्यागतः केनापि—इति भ०। परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः इत्यर्थः—इति सा०। तत्र कु शब्दे इति धातुर्ज्ञेयः, मध्ये सुडागमः। ‘असंचलितः’—इति ऋ० १।८४।७ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभासेनाद्यध्यक्षविषये व्याख्यातवान्। “हे मनुष्याः, यूयं यः सहायरहितोऽपि निर्भयो युद्धादपलायनशीलोऽतिशूरो भवेत् तमेव सेनाध्यक्षं कुरुत” इति तत्कृतो भावार्थः।