Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 388

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्रा꣢य꣣ सा꣡म꣢ गायत꣣ वि꣡प्रा꣢य बृह꣣ते꣢ बृ꣣ह꣢त् । ब्र꣣ह्मकृ꣡ते꣢ विप꣣श्चि꣡ते꣢ पन꣣स्य꣡वे꣢ ॥३८८॥

इ꣡न्द्रा꣢꣯य । सा꣡म꣢꣯ । गा꣣यत । वि꣡प्रा꣢꣯य । वि । प्रा꣣य । बृहते꣢ । बृ꣣ह꣢त् । ब्र꣣ह्मकृ꣡ते꣢ । ब्र꣣ह्म । कृ꣡ते꣢꣯ । वि꣣पश्चि꣡ते꣢ । वि꣣पः । चि꣡ते꣢꣯ । प꣣नस्य꣡वे꣢ ॥३८८॥

Mantra without Swara
इन्द्राय साम गायत विप्राय बृहते बृहत् । ब्रह्मकृते विपश्चिते पनस्यवे ॥

इन्द्राय । साम । गायत । विप्राय । वि । प्राय । बृहते । बृहत् । ब्रह्मकृते । ब्रह्म । कृते । विपश्चिते । विपः । चिते । पनस्यवे ॥३८८॥

Samveda - Mantra Number : 388
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सुहृदः ! यूयम् (विप्राय) विशेषेण क्षतिपूर्तिकराय। विशेषेण प्राति पूरयतीति विप्रः। यद्वा ब्राह्मणवत् सज्ज्ञानोपदेशकाय, (बृहत्) महते, (ब्रह्मकृते) वेदकाव्यस्य रचयित्रे (विपश्चिते) विदुषे, सकलविद्यासु पारंगताय (पनस्यवे२) पनः स्तुतिं प्रशंसां कीर्तिं वा परेषामिच्छतीति तस्मै। पण व्यवहारे स्तुतौ च। पनस् प्रातिपदिकात् परेच्छायां क्यचि, ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः। (इन्द्राय) राजराजेश्वराय परब्रह्मणे (बृहत्) प्रचुरप्रचुरं यथा स्यात् तथा (साम गायत) सामगानं कुरुत ॥८॥
Essence
मन्त्रोक्तगुणकर्मस्वभावो महामहिमशाली विराड्ब्रह्माण्डाधिपतिः परमेश्वरः सस्वरसामगानविधिना सर्वैरुपासनीयः ॥८॥
Subject
अथ जनान् सामगानाय प्रेरयति।
Footnote
१. ऋ० ८।९८।१, अथ० २०।६२।५। उभयत्र ‘ब्रह्मकृते’ इत्यत्र ‘धर्मकृते’ इति पाठः। साम० १०२५। २. पनस्यवे पनस्यायाऽर्च्याय। पनस्यतिरर्चतिकर्मा। निघं० ३।१४। व्यत्ययेन कृत्यार्थे उः—इति तुलसी स्वामी।