Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 387

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म꣣ स꣡खा꣢यः꣣ स्तो꣢म्यं꣣ न꣡र꣢म् । कृ꣣ष्टी꣡र्यो विश्वा꣢꣯ अ꣣भ्य꣢꣫स्त्येक꣣ इ꣢त् ॥३८७॥

आ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म्य꣢꣯म् । न꣡र꣢꣯म् । कृ꣣ष्टीः꣢ । यः । वि꣡श्वाः꣢꣯ । अ꣣भ्य꣡स्ति꣢ । अ꣣भि । अ꣡स्ति꣢꣯ । ए꣡कः꣢꣯ । इत् ॥३८७॥

Mantra without Swara
एतो न्विन्द्रꣳ स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥

आ । इत । उ । नु । इन्द्रम् । स्तवाम । सखायः । स । खायः । स्तोम्यम् । नरम् । कृष्टीः । यः । विश्वाः । अभ्यस्ति । अभि । अस्ति । एकः । इत् ॥३८७॥

Samveda - Mantra Number : 387
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः ! यूयम् (नु) क्षिप्रम् (एत उ) आगच्छत खलु, यूयं वयं च संभूय (स्तोम्यम्) स्तोमार्हम्, (नरम्) नेतारम् (इन्द्रम्) राजाधिराजं परमेश्वरम् (स्तवाम) उपासीमहि। स्तौतेर्लेटि रूपम्। (यः एकः इत्) यः एकलोऽपि (विश्वाः कृष्टीः) समस्ताः मानवीः प्रजाः (अभ्यस्ति) अभिभवति, महिम्ना अतिशेते ॥७॥
Essence
य एकोऽपि सन् कोटिकोटिसंख्यासु विद्यमानान् मानवान् स्वमहिम्नाऽतिशेते स एव सकलब्रह्माण्डाधीश्वरः सर्वैरपि स्तोतव्य आराधनीयश्च ॥७॥
Subject
अथ सखाय इन्द्रं परमेश्वरं स्तोतुमाहूयन्ते।
Footnote
१. ऋ० ८।२४।१९। अथ० २०।६५।१ ‘सखायः स्तोम्यं’ इत्यत्र ‘सखाय स्तोम्यं’ इति पाठः।