Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 386

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣢न्दु꣣मि꣡न्द्रा꣢य सिञ्चत꣣ पि꣡बा꣢ति सो꣣म्यं꣡ मधु꣢꣯ । प्र꣡ राधा꣢꣯ꣳसि चोदयते महित्व꣣ना꣢ ॥३८६॥

आ꣢ । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । सि꣣ञ्चत । पि꣡बा꣢꣯ति । सो꣣म्य꣢म् । म꣡धु꣢꣯ । प्र । रा꣡धाँ꣢꣯सि । चो꣣दयते । महित्वना꣢ ॥३८६॥

Mantra without Swara
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । प्र राधाꣳसि चोदयते महित्वना ॥

आ । इन्दुम् । इन्द्राय । सिञ्चत । पिबाति । सोम्यम् । मधु । प्र । राधाँसि । चोदयते । महित्वना ॥३८६॥

Samveda - Mantra Number : 386
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानवाः ! यूयम् (इन्द्राय) परमैश्वर्ययुक्ताय जगत्पतये परमात्मने (इन्दुम्) ज्ञानकर्मरूपं सोमरसम् (आ सिञ्चत) प्रक्षारयत, समर्पयत। सः (सोम्यम्) ज्ञानकर्मरूपसोममयम्। अत्र ‘सोममर्हति यः। अ० ४।४।१३७’ इति प्रकरणे ‘मये च। अ० ४।४।१३८’ इत्यनेन सोमशब्दान्मयडर्थे यः। (मधु) उपासनारूपं मधुरं माक्षिकम् (पिबाति) पिबति। पा धातोर्लेटि रूपम्। एवं पूजितः स पूजकाय (महित्वना) स्वमहिम्ना राधांसि साफल्यानि। राध संसिद्धौ धातोः असुन् प्रत्ययः। (प्र चोदयते) प्रेरयति, प्रयच्छति ॥६॥
Essence
यथा यज्ञे सोमरसं मधुनि संमिश्र्य। तस्य होमं कुर्वन्ति तथैवास्माभिः स्वकीयं ज्ञानकर्माख्यं सोमरसम् उपासनारूपे मधुनि संमिश्र्य परमेश्वराय तद्धोमः कार्यः। तेन स स्वोपासकाय बलं प्रदाय तं सफलतायाः सोपानमधिरोहयति ॥६॥
Subject
अथेन्द्राय सोममिश्रितं मधु समर्पयितुं प्रेरयति।
Footnote
१. ऋ० ८।२४।१३, ‘प्र राधांसि चोदयते’ इत्यत्र ‘प्र राधसा चोदयाते’ इति पाठः। साम० १५०९।