Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 385

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣢दु꣣ म꣡धो꣢र्म꣣दि꣡न्त꣢रꣳ सि꣣ञ्चा꣡ध्व꣣र्यो꣣ अ꣡न्ध꣢सः । ए꣣वा꣢꣫ हि वी꣣र꣡स्तव꣢꣯ते स꣣दा꣡वृ꣢धः ॥३८५॥

आ꣢ । इत् । उ꣣ । म꣡धोः꣢꣯ । म꣣दि꣡न्त꣢रम् । सि꣣ञ्च꣢ । अध्व꣣र्यो । अ꣡न्ध꣢꣯सः । ए꣣व꣢ । हि । वी꣣रः꣢ । स्त꣡व꣢꣯ते । स꣣दा꣡वृ꣢धः । स꣣दा꣢ । वृ꣣धः ॥३८५॥

Mantra without Swara
एदु मधोर्मदिन्तरꣳ सिञ्चाध्वर्यो अन्धसः । एवा हि वीरस्तवते सदावृधः ॥

आ । इत् । उ । मधोः । मदिन्तरम् । सिञ्च । अध्वर्यो । अन्धसः । एव । हि । वीरः । स्तवते । सदावृधः । सदा । वृधः ॥३८५॥

Samveda - Mantra Number : 385
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अध्वर्यो) यज्ञनिष्पादकेच्छो मानव ! अध्वर्युः अध्वरयुः, अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयते इति वा। अपि वाऽधीयाने युरुपबन्धः। निरु० १।७। त्वं समाजे राष्ट्रे जगति वा (मधोः अन्धसः) मधुरस्य ज्ञानकर्मोपासनारूपस्य सोमस्य (मदिन्तरम्) अतिशयेन तृप्तिकरं रसम्। अतिशयेन मदी इति मदिन्तरः, नलोपाभावश्छान्दसः। (इत्) निश्चयेन। (आसिञ्च उ) प्रवाहय खलु। (एव हि) एवमेव। एवा इत्यत्र संहितायां ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। (वीरः) विक्रमपरायणः (सदावृधः) नित्यं समृद्धः स इन्द्रः परमेश्वरः (स्तवते) स्तूयते ॥५॥
Essence
परमेश्वरस्तुतेरयमेव मार्गो यत् स्तोता मधुरमधुरं ज्ञानकर्मोपासनारसं जगति प्रवाहयेत्। सदा समृद्धः पूर्णकामः परमेश्वरः पत्रपुष्कफलाद्युपहारं न कामयते ॥५॥
Subject
अथाध्वर्युः सम्बोध्यते।
Footnote
१. ऋ० ८।२४।१६ ‘मधोर्’, ‘सिञ्चाध्वर्यो’, ‘वीर’, इत्यत्र क्रमेण ‘मध्वो’, ‘सिञ्च वाध्वर्यो’, ‘वीरः’ इति पाठः। अथ० २०।६४।४ ‘वीर’ इत्येव पाठः, शिष्टम् ऋग्वेदवत्। साम० १६८४।