Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 384

1875 Mantra
Devata- इन्द्रः Rishi- पर्वतः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡त्सोम꣢꣯मिन्द्र꣣ वि꣡ष्ण꣢वि꣣ य꣡द्वा꣢ घ त्रि꣣त꣢ आ꣣प्त्ये꣢ । य꣡द्वा꣢ म꣣रु꣢त्सु꣣ म꣡न्द꣢से꣣ स꣡मिन्दु꣢꣯भिः ॥३८४॥

य꣢त् । सो꣡म꣢꣯म् । इ꣣न्द्र । वि꣡ष्ण꣢꣯वि । यत् । वा꣣ । घ । त्रिते꣢ । आ꣣प्त्ये꣢ । यत् । वा꣣ । मरु꣡त्सु꣢ । म꣡न्द꣢꣯से । सम् । इ꣡न्दु꣢꣯भिः ॥३८४॥

Mantra without Swara
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये । यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥

यत् । सोमम् । इन्द्र । विष्णवि । यत् । वा । घ । त्रिते । आप्त्ये । यत् । वा । मरुत्सु । मन्दसे । सम् । इन्दुभिः ॥३८४॥

Samveda - Mantra Number : 384
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगद्धारक परमात्मन् ! (यत्) यस्मात्, त्वम् (विष्णवि२) विष्णौ आदित्ये, आत्मनि वा (सोमम्) तेजोरूपं ज्ञानरूपं वा सोमम्, अदधाः इति शेषः, (यद् वा) यस्मात् च त्वम्। वा इति समुच्चये। ‘अथापि समुच्चयार्थे भवति’ इति यास्कः (निरु० १।५)(घ) निश्चयेन (आप्त्ये) आप्तव्ये। आप्त्यम् आप्त्यानाम् आप्तव्यम् आप्तव्यानाम् इति निरुक्ते श्रवणात्। निरु० ११।२०। (त्रिते) पृथिव्यन्तरिक्षद्युरूपत्रिस्थानव्यापिनि अग्नौ, अथवा दूरंगमत्वात् त्रिस्थानगामिनि मनसि (सोमम्) दाहकगुणरूपं संकल्परूपं वा सोमम् अदधाः, (यद् वा) यस्माच्च (मरुत्सु) पवनेषु प्राणेषु वा (सोमम्) जीवनप्रदानगुणरूपं सोमम् अदधाः। य꣢द꣣दो꣡वा꣢त ते गृ꣣हे꣢३मृतं꣣ नि꣡हि꣢तं꣣ गु꣡हा꣢ (साम० १८४२) इति श्रुतेः। तस्मात् त्वम् (मन्दसे) यशसा द्योतसे। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु। त्वम् अस्मानपि (इन्दुभिः) पूर्वोक्तैः तेजो-ज्ञान-दोषदाहकत्व-संकल्प-जीवनप्रदान- रूपैः सोमैः। सोमो वा इन्दुः। श० २।२।३।२३। (सम्) संसृज ॥४॥
Essence
परमेश्वरेण सूर्याग्निवाय्वादिषु जीवात्ममनःप्राणादिषु च ये तत्तद्विशिष्टगुणा निहितास्त एव तेषां सोमरसा उच्यन्ते। तैर्गुणैर्वयमपि संसृज्येमहि ॥४॥ अत्र ‘त्रिते आप्त्ये’ इत्यस्य व्याख्याने विवरणकारः त्रितम् आप्त्यम् च पृथक् पृथग् ऋषिनाम्नी मन्यते—“यस्मात् हे इन्द्र ! त्वम्, त्रितेन च ऋषिणा सह, आप्त्येन च ऋषिणा सह (सोमं पिबसि)” इति। भरतस्वामिमते च आप्तस्य पुत्रः कश्चित् त्रितो नाम—‘त्रिते आप्त्ये आप्तस्य पुत्रे’ इति। सायणीयव्याख्याने च अपां पुत्रः त्रितो नाम राजर्षिः—‘आप्त्ये अपां पुत्रे त्रिते एतत्संज्ञके राजर्षौ यजमाने’ इति। तदेतेषां पारस्परिको विरोध एवैतिहासिकपक्षस्याप्रामाण्यं प्रमाणयति ॥
Subject
अथेन्द्रः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ८।१२।१६, अथ० २०।११।१। २. ह्रस्वस्य गुणः। (पा० ७।३।१०८), जसि च (पा० ७।३।१०९) इति सूत्रे ‘जसादिषु छन्दसि वा वचनं प्राङ्णौचङ्युपधायाः’ इति कात्यायनोक्तेरिह गुणः इति सत्यव्रत सामश्रमिणः।