Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 383

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥३८३॥

त꣢म् । ते꣣ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣣ । लोककृत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥३८३॥

Mantra without Swara
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥

तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककृत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥३८३॥

Samveda - Mantra Number : 383
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) अविनश्वरेण जीवात्मनाऽनुप्राणित मानव ! पदपाठे सर्वत्र अ-द्रि इति पाठात् न दीर्यते विनश्यति इत्यद्रिः अमर्त्यो जीवात्मा, तद्वान् अद्रिवा, वनिप् प्रत्ययः, सम्बुद्धौ अद्रिवः इति। (ते) तुभ्यम् (तम्) प्रसिद्धम् (मदम्) आनन्दयितारम्, (वृषणम्) अन्नधनजलबलप्रकाशविद्यादीनां वर्षकम् (पृक्षु२) आभ्यन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। पृच्यन्ते संसृज्यन्ते परस्परं प्रहाराय शत्रवो यत्र ताः पृचः संग्रामाः तासु, पृची सम्पर्के धातोः क्विपि रूपम्। (सासहिम्) अतिशयेन शत्रूणाम् अभिभवितारम्। सहतेर्यङन्तात् ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ। अ० ३।२।१७१’ वा० इति किः प्रत्ययः। (उ३) अपि च (लोककृत्नुम्) पृथिवीसूर्यचन्द्रदीनां लोकानां कर्तारम्, यद्वा विवेकालोकप्रदम्, (हरिश्रियम्) हरिषु हरणशीलेषु अग्निवायुसूर्यचन्द्रप्राणविद्युदादिषु श्रीः शोभा क्रियाशक्तिर्वा यस्मात् तम् इन्द्रं परमेश्वरं, वयम् (गृणीमसि) गृणीमः उपदिशामः स्तुमः। गॄ शब्दे, क्र्यादिः ॥३॥
Essence
विद्वद्भिर्विविधपदार्थानां सद्गुणानां च वर्षकः, सुखप्रदः, संग्रामेषु विजयप्रदाता, लोकलोकान्तराणां रचयिता, विवेकप्रदः, सर्वेषु पदार्थेषु श्रियो निधाता परमेश्वरः प्रजाजनानां कल्याणार्थमुपदेष्टव्यो, येन ते तन्महिमानं विज्ञाय तं सम्पूज्य ततः प्रेरणां गृहीत्वा पुरुषार्थिनो भवेयुः ॥३॥
Subject
अथ परमेश्वरस्य गुणकर्माण्याह।
Footnote
१. ऋ० ८।१५।४, अथ० २०।६१।१ उभयत्र ‘पृक्षु’ इत्यस्य स्थाने ‘पृत्सु’ इति पाठः। साम० ८८०। २. पृक्षु वैरिसम्पर्कजनितेषु संग्रामेषु। अत एव बह्वृचाः ‘पृत्सु’ इति पठन्ति। पृत्सु, समत्सु इति संग्रामनामसु (निघं० २।१७) पठितम्—इति सा०। ३. उ शब्दः सर्वेषां समुच्चये पादपूरणे वा—इति सा०। उलोककृत्नुम्, लोक एव उलोकः, लोककृतं यजमानानाम्—इति भ०। परं पदकारेण उ शब्दः पृथगेव दर्शितः।