Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 381

1875 Mantra
Devata- इन्द्रः Rishi- नारदः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥३८१॥

इ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उक्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥३८१॥

Mantra without Swara
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥

इन्द्र । सुतेषु । सोमेषु । क्रतुम् । पुनीषे । उक्थ्यम् । विदे । वृधस्य । दक्षस्य । महान् । हि । सः ॥३८१॥

Samveda - Mantra Number : 381
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक जगदीश्वर ! त्वम् (सोमेषु) अस्माकं ज्ञानरसेषु कर्मरसेषु श्रद्धारसेषु च (सुतेषु) अभिषुतेषु सत्सु (उक्थ्यम्) प्रशंसनीयम्। उक्थ्य इति प्रशस्यनाम। निघं० ३।८। (क्रतुम्) अस्माकं जीवनयज्ञम् (पुनीषे) पवित्रं करोषि। (सः) तादृशस्त्वम् (वृधस्य) वृद्धस्य (दक्षस्य) बलस्य। दक्ष इति बलनाम। निघं० २।९। (विदे२) लम्भनाय। विद्लृ लाभे धातोः क्विपि, चतुर्थ्येकवचने रूपम्। (महान् हि) महान् खलु, विद्यसे इति शेषः। संहितायाम् ‘दीर्घादटि समानपादे। अ० ८।३।९’ इति नकारस्य रुत्वे, यत्वे, यकारलोपे, ‘आतोऽटि नित्यम्। अ० ८।३।३’ इति पूर्वस्यानुनासिकः। षः इत्यत्र ‘पूर्वपदात्। अ० ८।३।१०६’ इति मूर्धन्यादेशः ॥१॥
Essence
यो ज्ञानी कर्मण्यश्च सन् परमेश्वरमुपास्ते तस्य जीवनं स निष्कल्मषं विधाय तस्मै विपुलमात्मबलं प्रयच्छति ॥१॥
Subject
तत्रादौ इन्द्रनाम्ना परमेश्वरस्य महत्त्वं प्रतिपादयति।
Footnote
१. ऋ० ८।१३।१ “इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम्। विदे वृधस्य दक्षसो महान् हि षः ॥” इति पाठः। साम० ७४६। २. विदे यथा वेत्ति यथा जानाति—इति वि०। विदे विन्दते वृधस्य प्रवृद्धस्य दक्षस्य बलस्य, द्वितीयार्थे षष्ठी। दक्षं विन्दते—इति भ०। वृधस्य दक्षस्य बलस्य विदे लाभाय—इति सा०।