Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 380

1875 Mantra
Devata- इन्द्रः Rishi- कुत्स आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣢ म꣣न्दि꣡ने꣢ पितु꣣म꣡द꣢र्च꣣ता व꣢चो꣣ यः꣢ कृ꣣ष्ण꣡ग꣢र्भा नि꣣र꣡ह꣢न्नृ꣣जि꣡श्व꣢ना । अ꣣वस्य꣢वो꣣ वृ꣡ष꣢णं꣣ व꣡ज्र꣢दक्षिणं म꣣रु꣡त्व꣢न्तꣳ स꣣ख्या꣡य꣢ हुवेमहि ॥३८०॥

प्रं꣢ । म꣣न्दि꣡ने꣢ । पि꣣तुम꣢त् । अ꣣र्चत । व꣡चः꣢꣯ । यः । कृ꣣ष्ण꣡ग꣢र्भाः । कृ꣣ष्ण꣢ । ग꣣र्भाः । निर꣡ह꣢न् । निः꣣ । अ꣡ह꣢꣯न् । ऋ꣣जि꣡श्व꣢ना । अ꣣वस्य꣡वः꣢ । वृ꣡ष꣢꣯णम् । व꣡ज्र꣢꣯दक्षिणम् । व꣡ज्र꣢꣯ । द꣣क्षिणम् । मरु꣡त्व꣢न्तम् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । हु꣣वेमहि ॥३८०॥

Mantra without Swara
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तꣳ सख्याय हुवेमहि ॥

प्रं । मन्दिने । पितुमत् । अर्चत । वचः । यः । कृष्णगर्भाः । कृष्ण । गर्भाः । निरहन् । निः । अहन् । ऋजिश्वना । अवस्यवः । वृषणम् । वज्रदक्षिणम् । वज्र । दक्षिणम् । मरुत्वन्तम् । सख्याय । स । ख्याय । हुवेमहि ॥३८०॥

Samveda - Mantra Number : 380
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे जनाः ! यूयम् (मन्दिने) आनन्दिताय आनन्दप्रदाय च इन्द्राय जगदीश्वराय। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातोस्ताच्छील्ये णिनिः। (पितुमत्) श्रद्धारूपेण रसेन युक्तम्। ‘तव त्ये पितो रसा रजांस्यनु विष्ठिताः। ऋ० १।१८७।४’ इति श्रुतेः, तत्रैव ‘यत् ते सोम। ऋ० १।१८७।९’ इत्युक्तेश्च पितुर्वै रसमयः सोमः। (वचः) स्तुतिवचनम् (प्र अर्चत) प्रेरयत, (यः) यो जगदीश्वरः (ऋजिश्वना) ऋजयः सरलगामिनः श्वानः किरणा यस्य स ऋजिश्वा सूर्यः तेन (कृष्णगर्भाः) कृष्णं तमः (गर्भे) यासां ताः कृष्णगर्भाः रात्रीः (निरहन्) निर्हन्ति। आगच्छत, (अवस्यवः) रक्षणं कामयमानाः यूयं वयम् च। अवस् शब्दात् आत्मन इच्छार्थे क्यच्, ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः। (वृषणम्) मेघाद् वृष्टिकर्तारं सुखवर्षकं वा, (वज्रदक्षिणम्) वज्रः न्यायदण्डः दक्षिणः प्रतापवृद्धिकरो यस्य तम्। दक्षतिः समर्द्धयतिकर्मा निरुक्ते १।६। (मरुत्वन्तम्) प्रशस्तप्राणम् इन्द्रं जगदीश्वरम् (सख्याय) सखिभावाय (हुवेमहि) आह्वयेम। ह्वेञ् धातोर्लिङि छान्दसं रूपम्। ‘हुवेम ह्वयेम’ इति निरुक्तम् ११।३१ ॥ अथ द्वितीयः—गुरुशिष्यपरः। हे सहाध्यायिनः ! यूयम् (मन्दिने) मोदप्रदाय इन्द्राय विद्यैश्वर्ययुक्ताय आचार्याय (पितुमत्) उत्कृष्टान्नसहितम्। पितुरित्यन्ननाम, पातेर्वा पिबतेर्वा प्यायतेर्वा। निरु० ९।२४। (वचः) आदरपूर्णं प्रियवचनम् (प्र अर्चत) उच्चारयत, (यः) आचार्यः (ऋजिश्वना२) ऋजुगतियुक्तेन अध्यापनमार्गेण, सरलशिक्षापद्धत्येत्यर्थः। ऋजि ऋजु यथा स्यात्तथा श्वयति गच्छतीति ऋजिश्वा सरलोऽध्यापनमार्गः तेन। (कृष्णगर्भाः) कृष्णम् अज्ञानं गर्भे यासां ताः अविद्यारात्रीः (निरहन्) हिनस्ति। (अवस्यवः) अवः विद्यातृप्तिम् इच्छवः यूयम् वयं च। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, अत्र तृप्त्यर्थे ग्राह्यः। (वृषणम्) सद्गुणवर्षकम्, (वज्रदक्षिणम्३) वज्रा कुपथाद् वर्जनकरी दक्षिणा विद्यादत्तिः यस्य तम्। वज्रः वर्जयतीति सतः। निरु० ३।११। (मरुत्वन्तम्४) प्रशस्ताः मरुतः विद्यायज्ञस्य ऋत्विजः विद्वांसोऽध्यापकाः यस्य तम् इन्द्रम् आचार्यम्। मरुत इति ऋत्विङ्नाम। निघं० ३।१८। (सख्याय) सखित्वाय (हुवेमहि) स्वीकुर्याम। हु दानादनयोः, आदाने चेत्येके ॥११॥५ अत्र श्लेषालङ्कारः ॥११॥
Essence
अहो, कीदृशं सख्यं परमेश्वरोऽस्मान् प्रति निर्वहति। सर्वत्र व्याप्ताया रात्रेन्धकारनिवारणे वृष्टिकरणे वा किमस्मादृशां सामर्थ्यम् ! स एवास्मदुपकाराय निश्शुल्कमेव तादृशानि विविधानि कर्माणि करोति। गुरोरप्यस्मान् प्रति कीदृशो महानुपकारो यो हि सकलामप्यविद्यानिशां निरस्य ज्ञानवृष्ट्यास्माकमन्तःकरणभूमिं सरसयति। अतः परमेश्वरो गुरुश्चास्माभिः सर्वात्मना पूजनीयः सत्करणीयश्च ॥११॥ अत्र भरतस्वामी इतिहासं प्रदर्शयन्नाह—“एषा गर्भस्राविणी उपनिषत्।....यः इन्द्रः कृष्णगर्भाः कृष्णेन असुरेण आहितगर्भाः कृष्णस्य भार्याः निरहन् निर्जघान, गर्भच्यावनाय। ऋजिश्वना राजर्षिणा हेतुना, तदर्थमित्यर्थः। ऋजिश्वनः शत्रुः कृष्णः। तं कृष्णं हत्वा तस्य सन्तानाभावाय गर्भानपि जघान” इति। सायणोऽपि६ तादृशमेवेतिहासं व्याजहार। तत्तु कल्पनाविलसितमेव, नात्र वस्तुतत्त्वं किञ्चिदित्यध्यवसेयम्। सत्यव्रतसामश्रमिणः सायणीयं व्याख्यानमरुचिकरं मन्यमाना आहुः—“विवरणकारस्य व्याख्यानमुत्कृष्टतरम्। तथाहि—कृष्णगर्भाः कृष्णो मेघः तस्य गर्भभूता आपः निरहन्। हन्तिर्गत्यर्थः अन्तर्णीतण्यर्थश्च द्रष्टव्यः। निर्गमितवान् पातितवानित्यर्थः।” इति ॥ अत्रेन्द्रमहिमवर्णनात्, तत्स्तोत्रं गातुं प्रेरणाद्, द्यावापृथिव्योरपि तद्धर्मधृतत्ववर्णनाद्, इन्द्रनाम्ना नृपतेरपि कर्तव्यवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विजानीत ॥ इति चतुर्थे प्रपाठके द्वितीयार्धे चतुर्थी दशतिः ॥ इति चतुर्थेऽध्याये तृतीयः खण्डः ॥
Subject
अथ परमात्मन आचार्यस्य च गुणकर्माणि वर्णयति।
Footnote
१. ऋ० १।१०१।१, ‘हुवेमहि’ इत्यत्र ‘हवामहे’ इति पाठः। २. ऋजवः सरलाः श्वानो वृद्धयो यस्मिन्नध्ययने तेन—इति ऋ० १।१०१।१ भाष्ये द०। ३. वज्रा अविद्याच्छेदिका दक्षिणा यस्मात् तम्—इति तत्रैव द०। ४. प्रशस्ताः मरुतो विद्यावन्तः ऋत्विजोऽध्यापका विद्यन्ते यस्मिंस्तम्—इति तत्रैव द०। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् ‘शालाध्यक्षः (अध्यापकः) कीदृशः स्यादिति’ विषये व्याख्यातवान्। ६. तथा हि—“यः इन्द्रः ऋजिश्वना एतत्संज्ञकेन राजर्षिणा सख्या सहितः सन् कृष्णगर्भाः कृष्णो नाम कश्चिदसुरः, तेन निषिक्तगर्भाः तदीया भार्याः निरहन् नितरामवधीत्। कृष्णमसुरञ्च तत्पुत्राणामनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्या अपि अवधीदित्यर्थः”—इति सायणः।