Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 38

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त्वे꣡ अ꣢ग्ने स्वाहुत प्रि꣣या꣡सः꣢ सन्तु सू꣣र꣡यः꣢ । य꣣न्ता꣢रो꣣ ये꣢ म꣣घ꣡वा꣢नो꣣ ज꣡ना꣢नामू꣣र्वं꣡ दय꣢꣯न्त꣣ गो꣡ना꣢म् ॥३८॥

त्वे꣣ इति꣢ । अ꣣ग्ने । स्वाहुत । सु । आहुत । प्रिया꣡सः꣢ । स꣣न्तु । सूर꣡यः꣢ । य꣣न्ता꣡रः꣢ । ये । म꣣घ꣡वा꣢नः । ज꣡ना꣢꣯नाम् । ऊ꣣र्व꣢म् । दय꣢꣯न्त । गो꣡ना꣢꣯म् ॥३८॥

Mantra without Swara
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् ॥

त्वे इति । अग्ने । स्वाहुत । सु । आहुत । प्रियासः । सन्तु । सूरयः । यन्तारः । ये । मघवानः । जनानाम् । ऊर्वम् । दयन्त । गोनाम् ॥३८॥

Samveda - Mantra Number : 38
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (स्वाहुत) श्रद्धा-रसानां हविर्भिः सम्यगाहुत (अग्ने) तेजोमय परमात्मन् ! ते (सूरयः) स्तोतारो विद्वांसः। सूरिरिति स्तोतृनाम। निघं० ३।१६। (त्वे) त्वयि तव दृष्टौ। युष्मच्छब्दात् सप्तम्येकवचने। सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेः शे आदेशः। (प्रियासः) प्रियाः। आज्जसेरसुक् अ० ७।१।५० इति जसोऽसुगागमः। (सन्तु) भवन्तु, (मघवानः) लौकिकाध्यात्मिकधनसम्पन्नाः (ये) सूरयः (जनानाम्) मानवानाम् (यन्तारः) सदसत्कर्मसु नियन्त्रणकर्तारः सन्तः (गोनाम्) गवाम् चक्षुरादीनामिन्द्रियाणाम्। पादान्तत्वाद् गोः पादान्ते अ० ७।१।५७ इति नुट्। (ऊर्वम्) हिंसकं दोषम्। उर्वी हिंसार्थः। (दयन्त) हिंसन्ति अपसारयन्ति। दय दानगतिरक्षणहिंसादानेषु, लडर्थे लङ्, बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः। यद्वा, (गोनाम्) वेदगिराम् (ऊर्वम्)२ समूहम् (दयन्त) अन्येभ्यः प्रयच्छन्ति, वेदार्थान् वेदानुकूलकर्माणि च लोकेषु प्रसारयन्तीत्यर्थः। यद्वा, (गोनाम् धेनूनाम् (ऊर्वम्) गोष्ठम् (दयन्त) रक्षन्ति ॥४॥३
Essence
ये विद्वांसः श्रद्धालवो जना लौकिकमाध्यात्मिकं च सर्वविधं धनं समुपार्ज्य योग्याः सन्तो जनान् नियच्छन्ति, स्वात्मनः परेषां चेन्द्रियकल्मषाण्यपहरन्ति, वेदगिरः प्रसारयन्ति, अमृतप्रदात्रीर्गाश्च रक्षन्ति, त एव परमात्मनः प्रिया जायन्ते ॥४॥
Subject
अथ के जनाः परमात्मनः प्रियाः सन्त्वित्याह।
Footnote
१. ऋ० ७।१६।७, य० ३३।१४ उभयत्र जनानामूर्वं इत्यत्र जनानामूर्वान् इति पाठः। २. उरुशब्दस्य बहुनाम्नः द्वितीयैकवचने छान्दसमादिदीर्घत्वम्, लुगमिपूर्वत्वं च छान्दसत्वादेव न भवति, यणादेशः। ऊर्वं बहु इत्यर्थः—इति वि०। ऊर्वम् समूहम्—इति भ०, सा०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजपक्षे, यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातः।