Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 378

1875 Mantra
Devata- द्यावापृथिवी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
घृ꣣त꣡व꣢ती꣣ भु꣡व꣢नानामभि꣣श्रि꣢यो꣣र्वी꣢ पृ꣣थ्वी꣡ म꣢धु꣣दु꣡घे꣢ सु꣣पे꣡श꣢सा । द्या꣡वा꣢पृथि꣣वी꣡ वरु꣢꣯णस्य꣣ ध꣡र्म꣢णा꣣ वि꣡ष्क꣢भिते अ꣣ज꣢रे꣣ भू꣡रि꣢रेतसा ॥३७८॥

घृ꣣त꣡व꣢ती꣣इ꣡ति꣢ । भु꣡व꣢꣯नानाम् । अ꣣भिश्रि꣡या꣢ । अ꣣भि । श्रि꣡या꣢꣯ । उ꣣र्वी꣡इति꣢ । पृ꣣थ्वी꣡इति꣢ । म꣣धुदु꣡घे꣢ । म꣣धु । दु꣢घे꣣इ꣡ति꣢ । सु꣣पे꣡श꣢सा । सु꣣ । पे꣡श꣢꣯सा । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । व꣡रु꣢꣯णस्य । ध꣡र्म꣢꣯णा । वि꣡ष्क꣢꣯भिते । वि । स्क꣣भितेइ꣡ति꣢ । अ꣣ज꣡रे꣢ । अ꣣ । ज꣢रे꣢꣯इ꣡ति꣢ । भू꣡रि꣢꣯रेतसा । भू꣡रि꣢꣯ । रेत꣣सा ॥३७८॥

Mantra without Swara
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

घृतवतीइति । भुवनानाम् । अभिश्रिया । अभि । श्रिया । उर्वीइति । पृथ्वीइति । मधुदुघे । मधु । दुघेइति । सुपेशसा । सु । पेशसा । द्यावा । पृथिवीइति । वरुणस्य । धर्मणा । विष्कभिते । वि । स्कभितेइति । अजरे । अ । जरेइति । भूरिरेतसा । भूरि । रेतसा ॥३७८॥

Samveda - Mantra Number : 378
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(घृतवती) घृतवत्यौ, दीप्तिमत्यौ उदकवत्यौ वा। घृ क्षरणदीप्त्योः। घृतमित्युदकनाम जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (भुवनानाम्) सर्वेषां लोकानाम् (अभिश्रिया२) अभिश्रियौ अभितः सर्वतः श्रीः शोभा लक्ष्मीः याभ्यां ते, (ऊर्वी३) बहुपदार्थयुक्ते, (पृथ्वी) विस्तीर्णे, (मधुदुघे) मधुरादिरसैः प्रपूरिके, (सुपेशसा) शोभनं पेशः सुवर्णं रूपं वा ययोस्ते। पेशस् इति हिरण्यनाम रूपनाम च। निघं० १।२, ३।७। (अजरे) अजीर्णे, (भूरिरेतसा) भूरि बहु रेतो वीर्यम् उदकं वा याभ्यां ते। रेतः इत्युदकनाम। निघं० १।१२। (द्यावापृथिवी) द्युलोकपृथिवीलोकौ (वरुणस्य४) सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य, सूर्यस्य, वायोर्वा (धर्मणा) आकर्षणधारणादिगुणेन (विष्कभिते) विशेषेण धृते स्तः। घृतवती, उर्वी, पृथ्वी, द्यावापृथिवी इति सर्वत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति पूर्वसवर्णदीर्घः। अभिश्रिया सुपेशसा, भूरिरेतसा इति सर्वत्र प्रथमाद्विवचनस्य आकारादेशः। वरुणशब्दो निरुक्ते मध्यमे उत्तमे च स्थाने व्याख्यातः, तेन वायुः सूर्यश्च गृह्यते। ‘वरुणो वृणोतीति सतः’ निरु० १०।४ ॥९॥५
Essence
मनुष्यैर्भूगोलविद्यां खगोलविद्यां च सम्यग् विज्ञाय सूर्यचन्द्रनक्षत्रादिभ्यः पृथिव्याश्च यथायोग्यं लाभाः प्राप्तव्याः। वरुणः परमेश्वर एव सूर्यपवनादिद्वारा तान् सर्वान् लोकानाकर्षणधारणादिभिः स्थिरीकरोतीति सोऽपि कदाचिन्न विस्मर्तव्यः ॥९॥ ६
Subject
अथ द्यावापृथिवी देवते। कीदृशे द्यावापृथिव्यौ कथं धृते स्त इत्याह।
Footnote
१. ऋ० ६।७०।१, य० ३४।४५। २. आश्रयणीये—इति वि०। अभिश्रयणीये—इति भ०। ३. उर्वी। उर्विति बहुनाम। अवयवबहुत्वाच्च बहुव्यपदेशः, बह्ववयवे—इति वि०। उर्वी विस्तीर्णे, पृथ्वी बहुकार्यरूपेण प्रथिते च—इति भ०। ४. (वरुणस्य) ‘सूर्यस्य वायोर्वा इति ऋ० ६।७०।१ भाष्ये, सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य’ इति च य० ३४।४५ भाष्ये—द०। ५. अत्र उर्वी, पृथ्वी, मधुदुघे, सुपेशसा, अजरे, भूरिरेतसा, धर्मणा, विष्कभिते एतेषां पदानामर्थाः ऋ० ६।७०।१ इत्यस्य, ‘अभिश्रिया’ इत्यस्य चार्थः य० ३४।४५ इत्यस्य दयानन्दभाष्याद् गृहीताः। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘भूमिसूर्यौ कीदृशौ स्तः’ इति विषये यजुर्भाष्ये च ईश्वरोपासनाविषये व्याख्यातः।