Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 377

1875 Mantra
Devata- इन्द्रः Rishi- सव्य आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्य꣢꣫ꣳसु मे꣣षं꣡ म꣢हया स्व꣣र्वि꣡द꣢ꣳ श꣣तं꣡ यस्य꣢꣯ सु꣣भु꣡वः꣢ सा꣣क꣡मी꣢꣯रते । अ꣢त्यं꣣ न꣡ वाज꣢꣯ꣳ हवन꣣स्य꣢द꣣ꣳ र꣢थ꣣मि꣡न्द्रं꣢ ववृत्या꣣म꣡व꣢से सुवृ꣣क्ति꣡भिः꣢ ॥३७७॥

त्य꣢म् । सु । मे꣣ष꣢म् । म꣣हय । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । श꣣त꣢म् । य꣡स्य꣢꣯ । सु꣣भु꣡वः꣢ । सु꣣ । भु꣡वः꣢꣯ । सा꣣क꣢म् । ई꣡र꣢꣯ते । अ꣡त्य꣢꣯म् । न । वा꣡ज꣢꣯म् । ह꣣वनस्य꣡दम् । ह꣣वन । स्य꣡द꣢꣯म् । र꣡थ꣢꣯म् । इ꣡न्द्र꣢꣯म् । व꣣वृत्याम् । अ꣡व꣢꣯से । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ ॥३७७॥

Mantra without Swara
त्यꣳसु मेषं महया स्वर्विदꣳ शतं यस्य सुभुवः साकमीरते । अत्यं न वाजꣳ हवनस्यदꣳ रथमिन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥

त्यम् । सु । मेषम् । महय । स्वर्विदम् । स्वः । विदम् । शतम् । यस्य । सुभुवः । सु । भुवः । साकम् । ईरते । अत्यम् । न । वाजम् । हवनस्यदम् । हवन । स्यदम् । रथम् । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिभिः । सु । वृक्तिभिः ॥३७७॥

Samveda - Mantra Number : 377
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखे ! त्वम् (त्यम्) तं प्रख्यातम् (मेषम्२) सुखैः सेक्तारम्, (स्वर्विदम्३) भुवि सूर्यप्रकाशस्य, राष्ट्रे वा विद्युत्प्रकाशस्य लम्भयितारम् इन्द्रं जगदीश्वरं राजानं वा (सु महय) सुष्ठु पूजय सत्कुरु वा। मह पूजायां चुरादिः। संहितायाम् ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (यस्य) इन्द्राख्यस्य जगदीश्वरस्य राज्ञो वा (शतम्) बहवो जनाः (साकम्) संभूय (सुभुवः४) सुस्तुतीः (ईरते) प्रेरयन्ति, उदीरयन्ति। अहमपि (वाजम्) बलवन्तम् (हवनस्यदम्) हवनम् आह्वानं प्रति स्यन्दते सद्यो गच्छति तम्, (अत्यम्) सततकर्मशीलम्। अत सातत्यगमने, भ्वादिः, अतति सततं गच्छतीति अत्यः। (इन्द्रम्) जगदीश्वरं राजानं वा (अवसे) रक्षणाय। (सुवृक्तिभिः)५ शोभनाभिः स्तुतिभिः (ववृत्याम्) स्वात्मानं प्रति प्रवर्तयेयम्, (न) यथा (वाजम्) वेगवन्तम् (हवनस्यदम्६) हवने विजयस्पर्धायां स्यन्दयन्ति गमयन्ति यं तम् (अत्यम्) सततगतिशीलम् (रथम्) विमानादियानम् (अवसे) देशान्तरं गन्तुम्। अवतिरत्र गत्यर्थः। (सुवृक्तिभिः) शोभनाभिः क्रियाभिः यन्त्रकलाभिर्वा प्रवर्तयन्ति चालयन्ति तद्वत् ॥८॥७ अत्र श्लिष्टोपमालङ्कारः ॥८॥
Essence
यथा देशान्तरं गन्तुं सततयायिनं रथं प्रवर्तयन्ति तथा रक्षां प्राप्तुं सततकर्मशीलः परमेश्वरो नृपतिश्च स्वाभिमुखं प्रवर्तनीयः ॥८॥
Subject
अथ पुनर्जगदीश्वरस्य नृपतेश्चार्चनाविषयमाह।
Footnote
१. ऋ० १।५२।१ ‘सुभुवः’, ‘रथमिन्द्रं’ इत्यत्र क्रमेण ‘सुभ्वः’, ‘रथमेन्द्रं’ इति पाठः। २. (मेषम्) सुखजलाभ्यां सर्वान् सेक्तारम्—इति ऋ० १।५२।१ भाष्ये द०। मेषरूपम्—इति वि०। शत्रुभिः सह स्पर्धमानम्—इति सा०। ३. स्वर्विदम् सर्वकामलम्भनं सर्वज्ञं वा—इति भ०। स्वरादित्यो द्यौर्वा, तस्य वेदितारं लब्धारं वा—इति सा०। ४. सुभुवः सुष्ठु भवाः, स्तोत्राणि—इति भ०। ५. द्रष्टव्या ३७४ संख्यकमन्त्रभाष्ये टिप्पणी। ६. हवनस्यदम् आह्वानं प्रति गन्तारम्—इति वि०। हवनं स्तोत्रं प्रति स्यन्दमानम्—इति भ०। हवनम् आह्वानं यागं वा प्रति वेगेन गच्छन्तम्—इति सा०। येन हवनं पन्थानं स्यन्दते तम्—इति १।५२।१ भाष्ये द०। ७. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं वह्न्यादिभिर्विमानादियानवाहनविषये व्याख्यातवान्।