Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 376

1875 Mantra
Devata- इन्द्रः Rishi- सव्य आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣢꣫ त्यं मे꣣षं꣡ पु꣢रुहू꣣त꣢मृ꣣ग्मि꣢य꣣मि꣡न्द्रं꣢ गी꣣र्भि꣡र्म꣢दता꣣ व꣡स्वो꣢ अर्ण꣣व꣢म् । य꣢स्य꣣ द्या꣢वो꣣ न꣢ वि꣣च꣡र꣢न्ति꣣ मा꣡नु꣢षं भु꣣जे꣡ मꣳहि꣢꣯ष्ठम꣣भि꣡ विप्र꣢꣯मर्चत ॥३७६॥

अ꣣भि꣢ । त्यम् । मे꣣ष꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । ऋ꣣ग्मि꣡य꣢म् । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । म꣣दत । व꣡स्वः꣢꣯ । अ꣣र्णव꣢म् । य꣡स्य꣢꣯ । द्या꣡वः꣢꣯ । न । वि꣣चर꣢न्ति । वि꣣ । च꣡र꣢꣯न्ति । मा꣡नु꣢꣯षम् । भु꣣जे꣢ । मँ꣡हि꣢꣯ष्ठम् । अ꣣भि꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । अर्चत ॥

Mantra without Swara
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । यस्य द्यावो न विचरन्ति मानुषं भुजे मꣳहिष्ठमभि विप्रमर्चत ॥

अभि । त्यम् । मेषम् । पुरुहूतम् । पुरु । हूतम् । ऋग्मियम् । इन्द्रम् । गीर्भिः । मदत । वस्वः । अर्णवम् । यस्य । द्यावः । न । विचरन्ति । वि । चरन्ति । मानुषम् । भुजे । मँहिष्ठम् । अभि । विप्रम् । वि । प्रम् । अर्चत ॥

Samveda - Mantra Number : 376
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्यम्) तं प्रसिद्धम्, (मेषम्२) सुखैः सेक्तारम्। मिषु सेचने, भ्वादि, कर्तरि अच् प्रत्ययः। चित्त्वादन्तोदात्तः। (पुरुहूतम्) बहुभिर्जनैः आहूतम्, (ऋग्मियम्) अर्चनीयम्। ऋग्मियम् ऋग्मन्तमिति वा अर्चनीयमिति वा पूजनीयमिति वा। निरु० ७।२६। (वस्वः अर्णवम्) धनस्य समुद्रम् (इन्द्रम्) परमेश्वरं राजानं वा (गीर्भिः) वाग्भिः (मदत) मदयत हर्षयत। मदी हर्षग्लेपनयोः भ्वादिः छन्दसि सकर्मकोऽपि, संहितायाम् ‘ऋचि तुनुघमक्षुतङ्०। ६।३।१३३’ इति दीर्घः। (यस्य) इन्द्रस्य परमेश्वरस्य राज्ञो वा (द्यावः) दीप्तयः (मानुषम्) मनुष्यम् (न विचरन्ति३) न अपचरन्ति, न अपकुर्वन्तीत्यर्थः। अत्र यद्वृत्तयोगान्निघातो न। तम् (मंहिष्ठम्) अतिशयेन महान्तं दातृतमं वा। महि वृद्धौ। मंहते दानकर्मा। निघं० ३।२०, अतिशयेन मंहिता मंहिष्ठः। इष्ठनि ‘तुरिष्ठेमेयस्सु। अ० ६।४।१५४’ इति तृचो लोपः। (विप्रम्) विपश्चितम् इन्द्रं परमेश्वरं राजानं वा, (भुजे) पालनाय (अभि अर्चत) पूजयत, सत्कुरुत वा ॥७॥४ ‘वस्वः अर्णवम्’ इत्यत्र समुद्रवाचिनोऽर्णवपदस्य निधौ लक्षणा, अतिशयधनवत्त्वं च व्यज्यते। इन्द्रे अर्णवत्वारोपाच्च रूपकम् ॥७॥
Essence
यथा सुखवर्षक ऐश्वर्यस्य पारावारो महत्तमो दातृतमो मेधावी परमेश्वरः सर्वैः पूजनीयो हर्षणीयश्च तथा तादृशो नृपतिः प्रजाजनैः सत्करणीयो हर्षयितव्यश्च ॥७॥ अत्र विवरणकार इत्थमितिहासं दर्शयति—“अङ्गिरा नाम ऋषिः। स इन्द्रं पुत्रं याचमानः स्वात्मनि अभिध्यानमकरोत्। तस्य योगैश्वर्यबलात् तत एवाभिध्यानात् सव्यनामा इन्द्रः पुत्रोऽजायतेति। तदेतच्छौनकेनोक्तम्—तं मेषः मेधातिथिकाण्वायनम् आजहार इन्द्रो मेषरूपी कस्मिंश्चित् कारणान्तरे। तद् ब्राह्मणेनोक्तम्—मेधातिथिं ह काण्वायनं मेषो भूत्वा जहारेति। तदभिवादिन्येषा भवति—तमिन्द्र मेषं मेषरूपम्।” इत्यादि। परं घटनेयं न वास्तविकी। मन्त्रस्य ऋषिः आङ्गिरसः सव्यः, मन्त्रे च इन्द्रो मेषनाम्ना व्यपदिष्टः इति कृत्वैव कथेयं विरचिता ॥ सायणस्तु ‘मेषं शत्रुभिः स्पर्द्धमानम्’ इति स्पर्धार्थात् मिष धातोस्तुदादेर्निष्पन्नं मेषशब्दं यौगिकत्वेन पूर्वं व्याख्यायापि पश्चाद् वैकल्पिकत्वेनेतिहासं प्रदर्शयति—“यद्वा, कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ। स ऋषिस्तं मेष इत्यवोचत्, अत इदानीमपि मेष इन्द्रोऽभिधीयते” इति। एषा कथापि काल्पनिकी। नास्मिन् मन्त्रे वस्तुतत्त्वेन घटितः कश्चिदितिहासोऽस्तीति सुधियो विभावयन्तु ॥
Subject
अथ जगदीश्वरो नृपतिश्च गीर्भिरर्चनीय इत्याह।
Footnote
१. ऋ० १।५१।१ ‘मानुषं’ इत्यत्र ‘मानुषा’ इति पाठः। २. (मेषम्) वृष्टिद्वारा सेक्तारम् इति ऋ० १।५१।१ भाष्ये द०। ३. यस्य द्यावः द्युलोकाः न विचरन्ति विगच्छन्तीत्यर्थः। किं नातिक्रमन्ति ? उच्यते। मानुषम्, अनन्तं ज्ञानम्—इति वि०। यस्य इन्द्रस्य द्यावः स्तोतारः, दीव्यतेः स्तुतिकर्मणो द्यौः। न विचरन्ति न विचलन्ति स्वस्थानात्। मानुषं मनुष्येभ्यः हितम्—इति भ०। यस्य इन्द्रस्य कर्माणि मानुषं, जातावेकवचनम्, मानुषाणि, मनुष्याणां हितानि विचरन्ति विशेषेण वर्तन्ते। अत्र दृष्टान्तः, द्यावो न यथा सूर्यस्य रश्मयः सर्वेषां हितकराः—इति सा०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजपक्षे व्याख्यातवान्।