Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 375

1875 Mantra
Devata- इन्द्रः Rishi- कृष्ण आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡च्छा꣢ व꣣ इ꣡न्द्रं꣢ म꣣त꣡यः꣢ स्व꣣र्यु꣡वः꣢ स꣣ध्री꣢ची꣣र्वि꣡श्वा꣢ उश꣣ती꣡र꣢नूषत । प꣡रि꣢ ष्वजन्त꣣ ज꣡न꣢यो꣣ य꣢था꣣ प꣢तिं꣣ म꣢र्यं꣣ न꣢ शु꣣न्ध्युं꣢ म꣣घ꣡वा꣢नमू꣣त꣡ये꣢ ॥३७५॥

अ꣡च्छ꣢꣯ । वः꣣ । इ꣡न्द्र꣢꣯म् । म꣣त꣡यः꣢ । स्व꣣र्यु꣡वः꣢ । स꣣ध्री꣡चीः꣢ । स꣣ । ध्री꣡चीः꣢꣯ । वि꣡श्वाः꣢꣯ । उ꣣शतीः꣢ । अ꣣नूषत । प꣡रि꣢꣯ । स्व꣣जन्त । ज꣡न꣢꣯यः । य꣡था꣢꣯ । प꣡ति꣢꣯म् । म꣡र्य꣢꣯म् । न । शु꣣न्ध्यु꣢म् । म꣣घ꣡वा꣢नम् । ऊ꣣त꣡ये꣢ ॥३७५॥

Mantra without Swara
अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत । परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥

अच्छ । वः । इन्द्रम् । मतयः । स्वर्युवः । सध्रीचीः । स । ध्रीचीः । विश्वाः । उशतीः । अनूषत । परि । स्वजन्त । जनयः । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघवानम् । ऊतये ॥३७५॥

Samveda - Mantra Number : 375
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्वर्युवः) विवेकप्रकाशं कामयमानाः। स्वः शब्दाद् आत्मन इच्छायां क्यचि ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः. (सध्रीचीः) सह उद्यमशीलाः। सह अञ्चन्तीति सध्रीच्यः। ‘ऋत्विग्दधृक्०। अ० ३।२।५९’ इति क्विनि, ‘सहस्य सध्रिः। अ० ६।३।९५’ इति सहस्य सध्रिरादेशः। जसि पूर्वसवर्णदीर्घः। (उशतीः) उशत्यः प्रीतियुक्ताः। वश कान्तौ धातोः शतरि स्त्रियां रूपम्। (विश्वाः) सर्वाः (मतयः) मदीयाः मनीषाः (इन्द्रं वः२) हृदयसम्राजं जगदीश्वरं त्वाम् (अच्छ) अभिमुखीभूय। (अनूषत) स्तुवन्ति। णू स्तवने धातोर्लडर्थे लुङि छान्दसो गुणाभावो व्यत्ययेनात्मनेपदं च। ताश्च (ऊतये) रक्षार्थम् (मर्यं न शुन्ध्युम्) अग्निमिव शोधकम्। अग्निदेवताके मन्त्रे ‘स हि क्र॒तुः स मर्यः॒ स सा॒धुः’ (ऋ० १।७७।३) इति श्रवणाद् मर्यः अत्र अग्निर्विज्ञेयः। (मघवानम्) ऐश्वर्यवन्तम् ऐश्वर्यप्रदातारं च त्वाम् (परिष्वजन्त) आलिङ्गन्ति, (जनयः) स्त्रियः (यथा पतिम्) यथा भर्तारम् परिष्वजन्ते तद्वत्। परि पूर्वात् ष्वञ्जतेः लडर्थे लङि ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडभावः ॥६॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥६॥
Essence
यः परमेश्वरोऽग्निरिवास्मद्धृदयानां शोधकः सद्विचारैश्वर्यप्रदाता च विद्यते तं प्रति सर्वैः स्वमतयः सदैव प्रवर्त्तनीयाः ॥६॥
Subject
अथ पुनर्जगदीश्वरस्य स्तुतिविषयमाह।
Footnote
१. ऋ० १०।४३।१, अथ० २०।१७।१। २. षष्ठीचतुर्थीद्वितीयासु बहुवचने विहितो युष्मदो वसादेशश्छन्दस्येकवचनेऽपि बहुत्र दृश्यत इति पूर्वं प्रतिपादितमेव।