Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 374

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
च꣣र्षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣क्थ्या꣢३꣱मि꣢न्द्रं꣣ गि꣡रो꣢ बृह꣣ती꣢र꣣꣬भ्यनू꣢꣯षत । वा꣣वृधानं꣡ पु꣢रुहू꣣त꣡ꣳ सु꣢वृ꣣क्ति꣢भि꣣र꣡म꣢र्त्यं꣣ ज꣡र꣢माणं दि꣣वे꣡दि꣢वे ॥३७४॥

च꣣र्षणीधृ꣡त꣢म् । च꣣र्षणि । धृ꣡त꣢꣯म् । म꣣घ꣡वा꣢नम् । उ꣣क्थ्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । गि꣡रः꣢꣯ । बृ꣣हतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । वावृधान꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । ज꣡र꣢꣯माणम् । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥३७४॥

Mantra without Swara
चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतꣳ सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥

चर्षणीधृतम् । चर्षणि । धृतम् । मघवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत । वावृधानम् । पुरुहूतम् । पुरु । हूतम् । सुवृक्तिभिः । सु । वृक्तिभिः । अमर्त्यम् । अ । मर्त्यम् । जरमाणम् । दिवेदिवे । दिवे । दिवे ॥३७४॥

Samveda - Mantra Number : 374
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चर्षणीधृतम्) मनुष्याणां धर्त्तारम्, (मघवानम्) प्रशस्तैश्वर्यम्, (उक्थ्यम्) वक्तव्यप्रशंसम्, (सुवृक्तभिः२) शोभनाभिः क्रियाभिः, (वावृधानम्) वृद्धम्। वृधधातोर्लिटः कानच्। (पुरुहूतम्) बहुभिः आहूतम्, (अमर्त्यम्) अमरकीर्तिम्, (दिवेदिवे) दिने दिने (जरमाणम्) सत्कर्मकारिणो जनान् प्रशंसन्तम्। जरते स्तुतिकर्मा, जरिता इत्यस्य स्तोतृवाचिषु पाठात् निघं० ३।१६। यद्वा सत्कर्माणि उपदिशन्तम्। जरते गृणाति। निरु० ४।२३। (इन्द्रम्) परमेश्वरं राजानं वा (बृहतीः) बृहत्यः (गिरः) वेदवाचः यद्वा मदीया वाचः (अभ्यनूषत) अभि स्तुवन्ति ॥५॥३ अत्र अर्थश्लेषोऽलङ्कारः, विशेषणानां साभिप्रायत्वात् परिकरालङ्कारोऽपि ॥५॥
Essence
यथा सर्वेषां मानवानां धर्ता शोभनकर्माऽमरकीर्तिः सत्कर्मोपदेष्टा परमेश्वरः सर्वैः स्तूयते तथैव तादृशगुणविशिष्टो नृपतिरपि प्रजानां प्रशंसापात्रं जायते ॥५॥
Subject
अथ कीदृशः स जगदीश्वरो राजा वा यं वयं स्तुवीमहीत्याह।
Footnote
१. ऋ० ३।५१।१। २. सुष्ठु शोभना वृक्तयो दुःखवर्जनानि यासु क्रियासु ताभिः—इति ऋ० १।५२।१ भाष्ये द०। सुवृक्तिभिः सुप्रवृत्ताभिः शोभनाभिः स्तुतिभिः—इति यास्कः (निरु० २।२४)। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं राजविषये व्याख्यातवान्।