Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 373

1875 Mantra
Devata- इन्द्रः Rishi- सव्य आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣मे꣡ त꣢ इन्द्र꣣ ते꣢ व꣣यं꣡ पु꣢रुष्टुत꣣ ये꣢ त्वा꣣र꣢भ्य꣣ च꣡रा꣢मसि प्रभूवसो । न꣢꣫ हि त्वद꣣न्यो꣡ गि꣢र्वणो꣣ गि꣢रः꣣ स꣡घ꣢त्क्षो꣣णी꣡रि꣢व꣣ प्र꣢ति꣣ त꣡द्ध꣢र्य नो꣣ व꣡चः꣢ ॥३७३॥

इ꣣मे꣢ । ते꣣ । इन्द्र । ते꣢ । व꣣य꣢म् । पु꣣रुष्टुत । पुरु । स्तुत । ये꣢ । त्वा꣣ । आर꣡भ्य꣢ । आ꣣ । र꣡भ्य꣢꣯ । च꣡रा꣢꣯मसि । प्र꣣भूवसो । प्रभु । वसो । न꣢ । हि । त्वत् । अ꣣न्यः । अ꣣न् । यः꣢ । गि꣣र्वणः । गिः । वनः । गि꣡रः꣢꣯ । स꣡घ꣢꣯त् । क्षो꣣णीः꣢ । इ꣣व । प्र꣡ति꣢꣯ । तत् । ह꣣र्यः । नः । व꣡चः꣢꣯ ॥३७३॥

Mantra without Swara
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः ॥

इमे । ते । इन्द्र । ते । वयम् । पुरुष्टुत । पुरु । स्तुत । ये । त्वा । आरभ्य । आ । रभ्य । चरामसि । प्रभूवसो । प्रभु । वसो । न । हि । त्वत् । अन्यः । अन् । यः । गिर्वणः । गिः । वनः । गिरः । सघत् । क्षोणीः । इव । प्रति । तत् । हर्यः । नः । वचः ॥३७३॥

Samveda - Mantra Number : 373
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरुष्टुत) बहुकीर्तित बहुभिः कीर्तित वा, (प्रभूवसो) समर्थ निवासप्रद च। प्रभवतीति प्रभुः, वासयतीति वसुः। प्रभुश्चासौ वसुश्च इति प्रभूवसुः, पूर्वपदस्य दीर्घश्छान्दसः। (इन्द्र) जगदीश्वर ! (इमे) एते संमुखस्थाः (ते) लब्धख्यातयः (वयम्) त्वदुपासकाः (ते) तव, स्मः इति शेषः, (ये त्वा आरभ्य) त्वामाश्रित्य (चरामसि) विचरामः। अत्र यद्वृत्तयोगान्निघाताभावः। हे (गिर्वणः) गीर्भिः स्तुतिवाग्भिः वननीय संभजनीय भगवन् ! (त्वत् अन्यः) त्वद्भिन्नः कोऽपि (गिरः) अस्मदीयाः स्तुतिवाचः (न हि) नैव (सघत्२) सहेत, तासां पात्रतां व्रजेदित्यर्थः। षह मर्षणे, हकारस्य घकारश्छान्दसः। लेट्प्रयोगः। हियोगात् ‘हि च। अ० ८।१।३४’ इति निघातनिषेधः। (तत्) तस्मात् त्वम् (नः) अस्माकं (वचः) हार्दिकं स्तुतिवचनम् (प्रति हर्य) कामयस्व। हर्य गतिकान्त्योः, भ्वादिः। (क्षोणीः इव) यथा भूमीः कश्चिद् भूपतिः कामयते तद्वत्। क्षोणी इति पृथिवीनाम। निघं० १।१ ॥४॥३ अत्रोपमालङ्कारः, ‘गिर्, गिरः’ इत्यत्र च छेकानुप्रासः ॥४॥
Essence
ये परमात्मना हार्दिकं सम्बन्धं स्थापयन्ति तेषामेव स्तुतीः स शृणोति ॥४॥
Subject
अथ जगदीश्वरं प्रति वचांस्युदीरयति।
Footnote
१. ऋ० १।५७।४, अथ० २०।१५।४ उभयत्र ‘प्रति नो हर्य तद् वचः’ इति पाठः। अथर्ववेदे ऋषिः गोतमः। २. गिरः सघत् सहते। न्यायः कश्चित् त्वद्वत् स्तुत्यतां प्रतिपत्तुं समर्थ इत्यर्थः—इति वि०। गिरः स्तुतीः सघत् सहेत, तासां योग्यः स्यादित्यर्थः—इति भ०। गिरः स्तुतीः न हि सघत् न हि प्राप्नोति—इति सा०। ३. ऋग्भाष्ये दयानन्दर्षिणापि मन्त्रोऽयं परमेश्वरविषय एव व्याख्यातः।