Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 372

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣣मे꣢त꣣ वि꣢श्वा꣣ ओ꣡ज꣢सा꣣ प꣡तिं꣢ दि꣣वो꣢꣯ य एक꣣ इ꣡द्भूरति꣢꣯थि꣣र्ज꣡ना꣢नाम् । स꣢ पू꣣र्व्यो꣡ नू꣢꣯तनमा꣣जि꣡गी꣢ष꣣न् तं꣡ व꣢र्त्त꣣नी꣡रनु꣢꣯ वावृत꣣ ए꣢क꣣ इ꣢त् ॥३७२॥

स꣣मे꣡त꣢ । स꣣म् । ए꣡त꣢꣯ । वि꣡श्वाः꣢꣯ । ओ꣡ज꣢꣯सा । प꣡ति꣢꣯म् । दि꣣वः꣢ । यः । ए꣡कः꣢꣯ । इत् । भूः । अ꣡ति꣢꣯थिः । ज꣡ना꣢꣯नाम् । सः । पू꣣र्व्यः꣢ । नू꣡त꣢꣯नम् । आ꣣जि꣡गी꣢षन् । आ꣣ । जि꣡गी꣢꣯षन् । तम् । व꣣र्त्तनीः꣢ । अ꣡नु꣢꣯ । वा꣣वृते । ए꣡कः꣢꣯ । इत् ॥३७२॥

Mantra without Swara
समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् । स पूर्व्यो नूतनमाजिगीषन् तं वर्त्तनीरनु वावृत एक इत् ॥

समेत । सम् । एत । विश्वाः । ओजसा । पतिम् । दिवः । यः । एकः । इत् । भूः । अतिथिः । जनानाम् । सः । पूर्व्यः । नूतनम् । आजिगीषन् । आ । जिगीषन् । तम् । वर्त्तनीः । अनु । वावृते । एकः । इत् ॥३७२॥

Samveda - Mantra Number : 372
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे प्रजाः ! (विश्वाः२) सर्वाः यूयम् (ओजसा) तेजसा बलेन वा (दिवः) सूर्यचन्द्रनक्षत्रनीहारिकादिसहितस्य सकलस्यापि खगोलस्य। अत्रैव पृथिव्या अपि ग्रहणं भवति, तस्या अपि खगोले एव स्थितत्वात्। (पतिम्) स्वामिनम् इन्द्रं जगदीश्वरम् (समेत) प्राप्नुत, (यः) इन्द्रो जगदीश्वरः (एकः इत्) एक एव वर्तते। किञ्च (जनानाम्) सर्वेषां स्त्रीपुरुषाणाम् (अतिथिः) अतिथिवत् पूज्यः (भूः३) विद्यते। (पूर्व्यः) पुराणः अपि (सः) असौ (नूतनम्) नवीनोत्पन्नं, जडचेतनात्मकं जगत् (आ जिगीषन्) समन्ततो जयन् भवति, पुराणपुरुषस्य तस्य सर्वातिशायिमहिमवत्त्वात्। अत्र जि जये धातोः स्वार्थे सन् बोद्धव्यः। (तम्) इन्द्रं जगदीश्वरम् (एकः इत्) एक एव (वर्तनीः) मार्गः—एक एव अध्यात्ममार्गो न तु भोगमार्ग इत्यर्थः (अनु वावृते) अनुगच्छति। तेनैव मार्गेण स लब्धुं शक्यते इति भावः। वृतु वर्तने, लडर्थे लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य। अ० ६।१।७’ इत्यभ्यासस्य दीर्घः ॥३॥
Essence
एकोऽपि सन् परमेश्वरः सर्वेषां लोकानामधिपतिः पूज्यतमो महिम्ना च सर्वातिशायी विद्यते। तं प्राप्तुमेको धर्ममार्ग एवाश्रयणीयः ॥३॥
Subject
अथ पुनरपि जगदीश्वरस्य महिमानमाह।
Footnote
१. अथ० ७।२१।१, समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम्। स पूर्व्यो नूतनमाविवासात् तं वर्तनिरनु वावृत एकमित् पुरु—इति पाठः। २. ‘हे विश्वाः सर्वाः प्रजाः’ इति सायणीये व्याख्याने तु स्वरो विरुद्ध्यते। ३. भूः भवति। भवतेः ‘छन्दसि लुङ्लङ्लिटः (पा० ३।४।६)’ इति लडर्थे लुङ्। प्रथमपुरुषेण मध्यमपुरुषव्यत्ययः। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६।४।७५) इति आडागमाभावः—इति भ०।