Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 371

1875 Mantra
Devata- इन्द्रः Rishi- सुवेदाः शैलूषिः Chhand- जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
श्र꣡त्ते꣢ दधामि प्रथ꣣मा꣡य꣢ म꣣न्य꣢꣫वेऽह꣣न्य꣢꣯द्दस्युं꣣ न꣡र्यं꣢ वि꣣वे꣢र꣣पः꣢ । उ꣣भे꣢꣫ यत्वा꣣ रो꣡द꣢सी꣣ धा꣡व꣢ता꣣म꣢नु꣣ भ्य꣡सा꣢ते꣣ शु꣣ष्मा꣢त्पृथि꣣वी꣡ चि꣢दद्रिवः ॥३७१॥

श्र꣢त् । ते꣣ । दधामि । प्रथमा꣡य꣢ । म꣣न्य꣡वे꣢ । अ꣡ह꣢꣯न् । यत् । द꣡स्यु꣢꣯म् । न꣡र्य꣢꣯म् । वि꣣वेः꣢ । अ꣣पः꣢ । उ꣣भे꣡इति꣢ । यत् । त्वा꣣ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । धा꣡व꣢꣯ताम् । अ꣡नु꣢꣯ । भ्य꣡सा꣢꣯ते꣣ । शु꣡ष्मा꣢꣯त् । पृ꣣थिवी꣢ । चि꣣त् । अद्रिवः । अ । द्रिवः ॥३७१॥

Mantra without Swara
श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः । उभे यत्वा रोदसी धावतामनु भ्यसाते शुष्मात्पृथिवी चिदद्रिवः ॥

श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । दस्युम् । नर्यम् । विवेः । अपः । उभेइति । यत् । त्वा । रोदसीइति । धावताम् । अनु । भ्यसाते । शुष्मात् । पृथिवी । चित् । अद्रिवः । अ । द्रिवः ॥३७१॥

Samveda - Mantra Number : 371
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! अहम् (ते) तव (प्रथमाय) सर्वोत्कृष्टाय (मन्यवे) तेजसे (श्रत् दधामि) श्रद्धां करोमि, (यत्) यस्मात्, त्वम् (दस्युम्) यज्ञादिकर्मणामुपक्षपयितृ अवर्षणम् यद्वा रात्रेरन्धकारम्। दस्युः, दस्यतेः क्षयार्थात्। उपदस्यन्त्यस्मिन् रसाः, उपदासयति कर्माणि। निरु० ७।२२। (अहन्) हंसि, (नर्यम्२) नरहितकरं यथा स्यात् तथा (अपः) मेघजलानि (विवेः३) भूतलं प्रति गमयसि। वी गत्यादिषु, अत्र ण्यर्थगर्भः, ततो लङि ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लौ, द्वित्वे, अडभावे रूपम्। (यत्) यस्मात् च (उभे रोदसी) द्वे अपि द्यावापृथिव्यौ (त्वा) त्वाम्, त्वच्छासनमित्यर्थः (अनु धावताम्) अनुधावतः। गत्यर्थाद् धावतेर्लडर्थे लङि प्रथमपुरुषस्य द्विवचने रूपम्, ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडागमाभावः। हे (अद्रिवः) प्रतापरूपवज्रवन् ! तव (शुष्मात्) बलात्। शुष्ममिति बलनाम। निघं० २।९। (पृथिवी चित्) अन्तरिक्षमपि। पृथिवी इत्यन्तरिक्षनामसु पठितम्। निघं० १।३। भूमेरुल्लेखः पूर्वं ‘रोदसी’ इति पदे कृत एवेत्यत्र पृथिवीपदेन अन्तरिक्षं वाच्यं भवति। (भ्यसाते४) भयाद् वेपेते। भ्यसते रेजते इति भयवेपनयोः निरु० ३।२१। लेटि ‘लेटोऽडाटौ। अ० ३।४।९४’ इत्याडागमः। मन्त्रान्तरं चात्र ‘यस्य॒ शुष्मा॒द् रोद॑सी॒ अभ्य॑सेताम्’ ऋ० २।१२।१ इति। तथा चोपनिषद्वर्णः—भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः (कठ० ६।३) इति ॥२॥
Essence
सूर्यप्रकाशाद् रात्रेस्तमसो निवारणं, मेघाद् वृष्टिः, द्यावापृथिव्योर्मध्ये विद्यमानानां लोकलोकान्तराणां नियमनं, सूर्यस्य पृथिव्याश्च परस्परं सामञ्जस्यम् इत्यादि या काचिद् व्यवस्था जगति विलोक्यते तस्याः कर्ता जगदीश्वर एव। अतोऽस्माभिस्तस्य प्रतापे श्रद्धा विधेया ॥२॥
Subject
अथेन्द्रनाम्ना जगदीश्वरस्य महिमानं गायति।
Footnote
१. ऋ० १०।१४७।१, ऋषिः सुवेदाः शैरीषिः। ‘दस्युं’ इत्यत्र ‘वृत्रं’, उत्तरार्धे च ‘उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिदद्रिवः’ इति पाठः। २. नर्यं नरहितम्। नर्यमिति क्रियाविशेषणम्—इति भ०। ३. वेतेः गतिकर्मणः अन्तर्णीतण्यर्थस्य रूपं विवेरिति—भ०। ४. माधवभरतस्वामिनोः पदकारस्य च मते ‘भ्यसात् ते’ इति पाठः। तत्र ‘ते शुष्मात् पृथिवी चित् भ्यसात्’ इति योजना कार्या।