Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 370

1875 Mantra
Devata- इन्द्रः Rishi- रेभः काश्यपः Chhand- अति जगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वि꣢श्वाः꣣ पृ꣡त꣢ना अभि꣣भू꣡त꣢रं꣣ न꣡रः꣢ स꣣जू꣡स्त꣢तक्षु꣣रि꣡न्द्रं꣢ जज꣣नु꣡श्च꣢ रा꣣ज꣡से꣢ । क्र꣢त्वे꣣ व꣡रे꣢ स्थे꣢म꣢न्या꣣मु꣡री꣢मु꣣तो꣡ग्रमोजि꣢꣯ष्ठं त꣣र꣡सं꣢ तर꣣स्वि꣡न꣢म् ॥३७०॥

वि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । अ꣣भिभू꣡त꣢रम् । अ꣣भि । भू꣡त꣢꣯रम् । न꣡रः꣢꣯ । स꣣जूः꣢ । स꣣ । जूः꣢ । त꣣तक्षुः । इ꣡न्द्र꣢꣯म् । ज꣣जनुः꣢ । च꣣ । राज꣡से꣢ । क्र꣡त्वे꣢꣯ । व꣡रे꣢꣯ । स्थे꣣म꣡नि꣢ । आ꣣मु꣡री꣢म् । आ꣣ । मु꣡री꣢꣯म् । उ꣣त꣢ । उ꣣ग्र꣢म् । ओ꣡जि꣢꣯ष्ठम् । त꣣र꣡स꣢म् । त꣣रस्वि꣡न꣢म् ॥३७०॥

Mantra without Swara
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥

विश्वाः । पृतनाः । अभिभूतरम् । अभि । भूतरम् । नरः । सजूः । स । जूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे । क्रत्वे । वरे । स्थेमनि । आमुरीम् । आ । मुरीम् । उत । उग्रम् । ओजिष्ठम् । तरसम् । तरस्विनम् ॥३७०॥

Samveda - Mantra Number : 370
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्वाः) समस्ताः (पृतनाः) शत्रुसेनाः (अभिभूतरम्) अतिशयेन अभिभवितारम्, (वरे) उत्कृष्टे (स्थेमनि) स्थैर्ये विद्यमानम्। स्थिरस्य भावः स्थेमा, तस्मिन्। (मुरीम्) समन्ततः प्रलयकर्तारं, विपदां मारयितारं वा, (उत) अपि च (उग्रम्) प्रचण्डम्, (ओजिष्ठम्) अतिशयेन ओजस्विनम्, (तरसम्) तरणसमर्थम्, तारणसमर्थं वा। अत्र ‘अत्यविचमितमि० उ० ३।११७’ इत्यत्र तॄ प्लवनसन्तरणयोः धातोः पाठाभावेऽपि बाहुलकात् असच् प्रत्ययः२। (तरस्विनम्) अतिशयेन बलवन्तम्। तरस् इति बलनाम। निघं० २।९। (इन्द्रम्) परमेश्वरं वीरपुरुषं वा (नरः) उपासका जनाः प्रजाजना वा (सजूः) सजुषः परस्परं संगताः सन्तः। अत्र ‘सुपां सुलुक्० ७।१।३९’ इति जसः सुः। (ततक्षुः) स्तुतिभिरुत्साहकैर्वचनैश्च तीक्ष्णीकुर्वन्ति। (राजसे) हृदयसाम्राज्ये राष्ट्रे वा राज्यं कर्तुम् (क्रत्वे) कर्मयोगाय च। ‘जसादिषु छन्दसि वा वचनम्। अ० ७।३।१८’ वा० इति गुणविकल्पनाद् गुणाभावे यणि रूपम्। (जजनुः च) जनयन्ति च, सम्राट्पदेऽभिषिञ्चन्तीत्यर्थः ॥१॥ अत्र श्लेषालङ्कारः। ‘तरसं-तरस्विनम्’ इत्यत्र छेकानुप्रासः ॥१॥
Essence
यथा कामक्रोधलोभमोहदुःखदौर्मनस्यादिसैन्यानामभिभवितारमविचलं प्रलयकर्तारमोजिष्ठं तारकं बलिष्ठं परमात्मानमुपासका जनाः स्वहृदयसम्राजं कुर्वन्ति, तथैव प्रजाजनाः शत्रूणां पराजेतारं दृढसंकल्पं विपद्विदर्तारं संकटेभ्यस्तरणतारणसमर्थं शूरं नरं समुत्साह्य राजपदेऽभिषिञ्चन्तु ॥१॥
Subject
अथ कीदृशं परमेश्वरं वीरपुरुषं च जनाः सम्राजं जनयन्तीत्याह।
Footnote
१. ऋ० ८।९७।१०, अथ० २०।५४।१ उभयत्र ‘नरः’ इत्यत्र ‘नरं’, उत्तरार्धे च ‘क्रत्वावरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम्’ इति पाठः। साम० ९३०। २. द्रष्टव्या, उणादिकोषस्य उक्तसूत्रे दयानन्दटीका—‘बाहुलकात् तरतीति तरसम् मांसं वा’ इति।