Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 37

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
बृ꣣ह꣡द्भि꣢रग्ने अ꣣र्चि꣡भिः꣢ शु꣣क्रे꣡ण꣢ देव शो꣣चि꣡षा꣢ । भ꣣र꣡द्वा꣢जे समिधा꣣नो꣡ य꣢विष्ठ्य रे꣣व꣡त्पा꣢वक दीदिहि ॥३७॥

बृ꣣ह꣡द्भिः꣢ । अ꣣ग्ने । अ꣣र्चिभिः꣢ । शु꣣क्रे꣡ण꣢ । दे꣣व । शोचि꣡षा꣢ । भ꣣र꣡द्वा꣢जे । भ꣣र꣢त् । वा꣣जे । समिधानः꣢ । सम्꣣ । इधानः꣢ । य꣣विष्ठ्य । रेव꣢त् । पा꣣वक । दीदिहि ॥३७॥

Mantra without Swara
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥

बृहद्भिः । अग्ने । अर्चिभिः । शुक्रेण । देव । शोचिषा । भरद्वाजे । भरत् । वाजे । समिधानः । सम् । इधानः । यविष्ठ्य । रेवत् । पावक । दीदिहि ॥३७॥

Samveda - Mantra Number : 37
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे यविष्ठ्य नित्यतरुण। अतिशयेन युवा यविष्ठः, स एव यविष्ठ्यः। युवशब्दाद् इष्ठन् प्रत्ययः। ततो नवसूर्तमर्तयविष्ठेभ्यो यत् अ० ५।४।२५ वा० इति स्वार्थे यत् प्रत्ययः। (पावक) पवित्रयितः, (देव) दातः (अग्ने) तेजस्विन् परमेश्वर ! (बृहद्भिः) महद्भिः (अर्चिभिः) तेजोभिः, (शुक्रेण) शुद्धेन। शुच्यते पवित्रीभवतीति शुक्रः। शुचिर् पूतीभावे धातोः ऋज्रेन्द्राग्र०’ उ० २।२९ इति रन्-प्रत्ययान्तो निपातः। (शोचिषा) ज्ञानप्रकाशेन च (भरद्वाजे२) भरन् बिभ्रद् वाजं बलं स्वात्मनि यः स भरद्वाजः पुरुषार्थ-प्रियः, तादृशे मयि स्तोतरि, यद्वा भरद्वाजे बलोत्साहसम्पन्ने मदीये मनसि। मनो वै भरद्वाज ऋषिः। श० ८।१।१।९। (समिधानः) प्रकाशमानः सन् (रेवत्) समृद्धियुक्तं यथा भवति तथा। धनवाचकाद् रयिशब्दान्मतुपि रयेर्मतौ बहुलम्’ अ० ६।१।३७ वा० इति सम्प्रसारणम्। (दीदिहि) देदीप्यस्व। दीदयतिः ज्वलतिकर्मा। निघं० १।१६ ॥३॥
Essence
मनुष्यैः पुरुषार्थिभिरेव भूत्वा परमेश्वर आह्वातव्यः। अकर्मण्यस्य प्रार्थनां स न कर्णे करोति ॥३॥
Subject
अथ पुनः परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ६।४८।७। रेवन्नः शुक्र दीदिहि इति पाठः। तदनन्तरं द्युमत् पावक दीदिहि’ इत्यधिकम्। २. अस्य मन्त्रस्य शंयुः ऋषिः, मन्त्रे च भरद्वाजस्य नाम। तदेतद् ऋषयो मन्त्रकर्तारः क्वचित् स्वकीयं नाम मन्त्रे प्रचिक्षिपुः इति ये मन्यन्ते तेषां मते कथं संगच्छेत? तत्समाधानं भरतस्वामी प्रोवाच—भरद्वाजे मम भ्रातरि इति भरद्वाजः शंयोर्भ्रातासीदिति तदीयोऽभिप्रायः। सायणोऽपि तथैव व्याचख्यौ। वस्तुतस्तु भरद्वाज इति यौगिकं नाम, अतो नात्रेतिहासः शङ्कनीयः।