Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 368

1875 Mantra
Devata- विश्वेदेवाः Rishi- त्रित आप्त्यः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣मी꣡ ये दे꣢꣯वा꣣ स्थ꣢न꣣ म꣢ध्य꣣ आ꣡ रो꣢च꣣ने꣢ दि꣣वः꣢ । क꣡द्ध꣢ ऋ꣣तं꣢꣫ कद꣣मृ꣢तं꣣ का꣢ प्र꣣त्ना꣢ व꣣ आ꣡हु꣢तिः ॥३६८॥

अ꣣मी꣡इति꣢ । ये दे꣣वाः । स्थ꣡न꣢꣯ । स्थ । न꣣ । म꣡ध्ये꣢꣯ । आ । रो꣣चने꣢ । दि꣣वः꣢ । कत् । वः꣣ । ऋत꣢म् । कत् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । का꣢ । प्र꣣त्ना꣢ । वः꣢ । आ꣡हु꣢꣯तिः । आ । हु꣣तिः ॥३६८॥

Mantra without Swara
अमी ये देवा स्थन मध्य आ रोचने दिवः । कद्ध ऋतं कदमृतं का प्रत्ना व आहुतिः ॥

अमीइति । ये देवाः । स्थन । स्थ । न । मध्ये । आ । रोचने । दिवः । कत् । वः । ऋतम् । कत् । अमृतम् । अ । मृतम् । का । प्रत्ना । वः । आहुतिः । आ । हुतिः ॥३६८॥

Samveda - Mantra Number : 368
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देवाः) स्वस्वविषयप्रकाशकाः ज्ञानेन्द्रियरूपाः देवाः ! (अमी ये) इमे ये यूयम् (दिवः) ऊर्ध्वस्थानस्य शिरोभागस्य (मध्ये) अभ्यन्तरे (रोचने) रोचमाने स्वस्वगोलके (आ स्थन) आगत्य स्थिताः स्थ। अत्र ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तनबादेशः। यद्वा, हे (देवाः) प्रकाशकाः सूर्यकिरणाः ! (अमी ये) इमे ये यूयम् (दिवः) द्युलोकस्य (मध्ये) अभ्यन्तरे (रोचने) दीप्तिमति आदित्ये (आ स्थन) आगत्य स्थिताः स्थ, यद्वा, हे (देवाः) ज्ञानप्रकाशयुक्ताः ज्ञानस्य प्रकाशकाश्च विद्वांसः ! (अमी ये) इमे ये यूयम् (दिवः) कीर्त्या प्रकाशितस्य राष्ट्रस्य (मध्ये) अभ्यन्तरे (रोचने) यशस्विनि पदे (आ स्थन) नियुक्ताः स्थ, तान् युष्मान् पृच्छामि यत् (कत्) किम् (वः) युष्माकम् (ऋतम्) सत्यम् अस्ति ? (कत्) किम् (अमृतम्) अमरं तत्त्वम् अस्ति ? (का) का च (वः) युष्माकम् (प्रत्ना) पुराणी पूर्वकालादागता (आहुतिः) होमक्रिया अस्ति ? इति ॥९॥
Essence
अत्रोत्तरदानं विनैव केवलं प्रश्नान् कृत्वा जिज्ञासा समुत्पाद्यते, यदेते प्रश्नाः स्वयमेव स्वप्रतिभयोत्तरणीया इति। इमानि तावत्तेषामुत्तराणि भवितुमर्हन्ति। शिरसि ये ज्ञानेन्द्रियरूपा देवाः स्थितास्तेषाम् ऋतमस्ति जीवात्मनि सत्यज्ञानप्रापणम्, तेषाममृतमस्ति वास्तविकम् इन्द्रियतत्त्वं यद्देहेन सहेन्द्रियगोलकानां विनाशेऽपि न म्रियते, प्रत्युत सूक्ष्मशरीरे तिष्ठति, तेषामाहुतिर्विद्यते शरीररक्षायज्ञे ज्ञानप्रदानयज्ञे च स्वकीयो होमः। एवमेव, द्युलोकस्थे सूर्य ये किरणरूपा देवाः स्थितास्तेषाम् ऋतमस्ति स सत्यनियमो यमनुसृत्य ते प्रत्यहं सूर्योदयेन साकं गगनं भूमण्डलं च व्याप्नुवन्ति, तेषाममृतमस्ति शुद्धं मेघजलं यत्ते समुद्रादिभ्यो वाष्पीकरणविधिनोर्ध्व नयन्ति, एतेषां प्रत्नाऽऽहुतिर्विद्यते सनातनकालान्मेघजलस्य पार्थिवाग्नौ होमो येन पृथिव्यामोषधिवनस्पत्यादयः प्ररोहन्ति प्राणिनश्च जीवनं धारयन्ति, यद्वा सर्वेषु ग्रहोपग्रहेषु स्वात्मनो होमो येन पृथिवीमङ्गलबुधचन्द्रादयो ज्योतिषा दीप्यन्ते। तथैव राष्ट्रे ये विद्यादातारो विद्वांसः सन्ति तेषाम् ऋतमस्ति सा सत्यनिष्ठा यामनुसृत्य ते विद्यादाने दत्तचित्ता भवन्ति, तेषाममृतमस्ति तज्ज्ञानं यत्ते सत्पात्रेभ्यः प्रयच्छन्ति, तेषां प्रत्नाऽऽहुतिश्च विद्यते सनातनकालात् प्रचलितेऽध्ययनाध्यापनयज्ञे स्वात्मनो होम इत्यादि सुधीभिः स्वयमेवोह्यम् ॥९॥ विवरणकारोऽस्या ऋचो व्याख्याने ब्रूते—“त्रितस्यार्षम्। वैश्वदेवीयमृक्। अत्रेतिहासमाचक्षते। आप्तस्य ऋषेः त्रयः पुत्रा बभूवुः, एकतः द्वितः त्रित इति। ते यष्टुकामाः याज्यान् यजमानान् गा ययाचिरे लेभिरे च। ता आदाय गृहं जग्मुः। तद् गच्छतः पथा सरस्वत्यास्तीरेण परस्मिन् कूले निषण्णो गवादकः ददर्श। दृष्ट्वा चोत्थाय अभिमुखः सारस्वतीरप अवतीर्य रात्रौ त्रासयामास। तेषां त्रासात् त्रस्यतां त्रितः कूपे निर्जले तृणैर्वल्लीभिश्चावकीर्णे पपात। अन्ये तु पुनः एतदेवेतिहासमन्यथा व्याचक्षते। एकतद्विताभ्यां स्वल्पा गावो लब्धाः त्रितेन च बह्व्यः। तत ईर्ष्यया ताभ्यां कूपे प्रक्षिप्तः इति। तस्य तत्रस्थस्यैव मनः प्रादुरभूत्। कृतयागसङ्कल्पस्य अकृतयागस्य मम मृत्युर्न श्रेयसे। तत्कथमिहस्थ एवाहं सोमं पिबेयमिति। एवं चिन्तयन् यदृच्छया तस्मिन् कूपे वीरुधमुत्तीर्णा ददर्श। स तामादाय सोमोऽयमिति मनसा निश्चित्य यागैश्वर्यमन्यानि अपि यागसाधनानि मना सङ्कल्प्य, शर्करा अभिषवग्राव्णः कृत्वा तां वीरुधमभिसुषाव। अभिषुत्य च देवानाजुहाव। ते देवा आहूताः सन्तः आह्वानकारणम् अनवबुध्यमानाः आविग्ना बभूवुः। तद् बृहस्पतिः शुश्राव। श्रुत्वा च देवानुवाच त्रितस्य यज्ञो वर्तते। तत्र गच्छाम इति। ततस्ते देवाः आजग्मुः। स तानागतान् कूपादुत्तरणार्थी तुष्टाव उपालब्धवांश्च—अमी ये देवा स्थन भवथ, तिष्ठथेत्यर्थः। मध्ये आरोचने दिवः सम्बन्धिनि आदित्यमण्डले। तानहं पृच्छामि। क्व ऋतं सत्यम्, क्व चामृतम्। क्व प्रत्ना पुराणी, चिरन्तनीत्यर्थः, वः युष्माकं प्रत्ना सम्बन्धिनी आहुतिः ? एतदुक्तं भवति—नष्टसत्यासत्यविवेका अकृतज्ञाश्च यूयं, येन मामस्मात् कूपात् नोत्तारयथ इत्युपालम्भः। अयं द्वितीयः पक्षः। अमी ये देवाः स्थन—मध्ये आदित्यमण्डले, आरोचने दिवः द्युलोकादपि दीप्ततरे स्थाने भागं ग्रहीतुमागताः। कत् व ऋतम् ? एतदुक्तं भवति—ऋतम् अन्नम्, तदत्र नास्ति कूपे निर्जले। तत् कत् अमृतं सोमाख्यम्। हविर्धानाः, करम्भः, पुरोडाशः, परीवापः, पयः, उपवसथ्यः, पशुरग्नीषोमीयः, पशुः सवनीयः एवमादिकं हि तत्। अमृतं च क्वात्र विद्यते। कस्मान्मम देवा यागमुद्दिश्य भवन्तोऽत्र समागताः। ततस्तैः कूपादुत्तारितः’’ इति। कल्पनाकलाविलसितमेतत्सर्वं न वास्तविकमिति स्वयमेव सुधियो विभावयन्तु ॥
Subject
विश्वेदेवाः देवताः। देवानां विषये त्रयः प्रश्ना उत्थाप्यन्ते।
Footnote
१. १।१०५।५ ऋषिः त्रित आप्त्यः कुत्स आङ्गिरसो वा। ‘अमी ये देवाः स्थन त्रिष्वारोचने दिवः। कद्व ऋतं कदमृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥’ इति पाठः।