Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 367

1875 Mantra
Devata- उषाः Rishi- प्रस्कण्वः काण्वः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣡य꣢श्चित्ते प꣣तत्रि꣡णो꣢ द्वि꣣पा꣡च्चतु꣢꣯ष्पादर्जुनि । उ꣢षः꣣ प्रा꣡र꣢न्नृ꣣तू꣡ꣳरनु꣢꣯ दि꣣वो꣡ अन्ते꣢꣯भ्य꣣स्प꣡रि꣢ ॥३६७॥

व꣡यः꣢꣯ । चि꣣त् । ते । पतत्रि꣡णः꣢ । द्वि꣣पा꣢त् । द्वि꣣ । पा꣢त् । च꣡तु꣢꣯ष्पात् । च꣡तुः꣢꣯ । पा꣣त् । अर्जुनि । उ꣡षः꣢꣯ । प्र । आ꣣रन् । ऋतू꣢न् । अ꣡नु꣢꣯ । दि꣣वः꣢ । अ꣡न्ते꣢꣯भ्यः । परि꣢꣯ ॥३६७॥

Mantra without Swara
वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि । उषः प्रारन्नृतूꣳरनु दिवो अन्तेभ्यस्परि ॥

वयः । चित् । ते । पतत्रिणः । द्विपात् । द्वि । पात् । चतुष्पात् । चतुः । पात् । अर्जुनि । उषः । प्र । आरन् । ऋतून् । अनु । दिवः । अन्तेभ्यः । परि ॥३६७॥

Samveda - Mantra Number : 367
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
यथा प्रभाते सूर्योदयात् पूर्वं प्राच्या अन्तरिक्षे उषाः प्रकाशते तथैव अध्यात्मसाधनारतानां योगिनां हृदयान्तरिक्षे परमात्मसूर्यस्योदयात् प्राक् तदाविर्भावद्योतकाऽऽत्मप्रभारूपिणी उषाः प्रभासते। सैवात्र उषोनाम्ना व्याहृता ॥ हे (अर्जुनि) जनमानसे आविर्भावं भजमाने शुभ्रे सत्त्वगुणप्रधाने अध्यात्मप्रभे ! (दिवः) आत्मलोकस्य (अन्तेभ्यः परि) प्रान्तेभ्यः। अत्र परिः अनर्थकः। ‘अधिपरी अनर्थकौ। अ० १।४।९३’ इति कर्मप्रवचनीयत्वे ‘पञ्चम्यपाङ्परिभिः। अ० २।३।१०’ इति परियोगे पञ्चमी। (ते) तव (ऋतून् अनु) आगमनानि उपलक्ष्य (वयः चित्) पक्षिणः इव। निरुक्ते चिद् इति निपातः उपमार्थे व्याख्यातः। निरु० १।४, ३।१६। (पतत्रिणः) उत्क्रमणशीलाः, मूलाधारादिभ्यः अधोऽधश्चक्रेभ्यः उपर्युपरि चक्रेषु प्राणोत्क्रमणाय प्रयतमाना योगिनः इत्यर्थः, (द्विपात्) द्वौ अपरापराविद्यारूपौ पादौ प्राप्तव्यौ यस्य सः, यद्वा द्वौ ज्ञानयोगकर्मयोगरूपौ पादौ गन्तव्यौ मार्गौ यस्य सः, यद्वा द्वौ अभ्युदयनिःश्रेयसरूपौ पादौ गन्तव्यौ यस्य सः, (चतुष्पात्) चत्वारः पादाः मनोबुद्धिचित्ताहंकारूपम् अन्तःकरणचतुष्ट्यं साधनं यस्य सः, यद्वा मैत्रीकरुणामुदितोपेक्षाः सुखःदुखपुण्यापुण्यविषयाश्चतस्रो वृत्तयः चित्तप्रसादनोपायाः यस्य सः, यद्वा बाह्य-आभ्यन्तर-स्तम्भवृत्ति-बाह्याभ्यन्तरविषयाक्षेपिरूपाश्चत्वारः प्राणायामाः प्रकाशावरणक्षयोपायाः यस्य सः, यद्वा धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्था यस्य सः, एते सर्वेऽपि। द्विपात् चतुष्पात् इत्यत्र जातौ एकवचनम्। (प्रारन्) प्रगतितत्पराः जायन्ते। प्र पूर्वाद् ऋ गतौ धातोर्जुहोत्यादेर्लुङि रूपम् ॥८॥२ अत्र ‘वयः चित् पतत्रिणः’ इत्यत्र श्लिष्टोपमालङ्कारः ॥८॥
Essence
यथा प्रभातकालिक्याः प्राकृतिक्या उषसः प्रादुर्भावे पक्षिणो द्विपादो मनुष्याश्चतुष्पादो मृगाश्च निद्रां विहाय सचेष्टाः प्रयत्नशीलाश्च जायन्ते तथैवाध्यात्मिक्या उषसः प्रादुर्भावे योगमार्गे प्रवृत्ता उत्क्रमणशीला द्विसाधनाश्चतुःसाधना वा योगिनः स्वहृदये जनमानसे चाध्यात्मसूर्यस्योदयाय सचेष्टा भवन्ति ॥८॥
Subject
उषाः देवता। प्राकृतिक्या उषस इव आध्यात्मिक्या उषसः प्रादुर्भावे के किं कुर्वन्तीत्याह।
Footnote
१. ऋ० १।४९।३। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममुषस उपमानेन स्त्रियाः कर्तव्यविषये व्याख्यातवान्।