Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 364

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वि꣣श्वा꣡न꣢रस्य व꣣स्प꣢ति꣣म꣡ना꣢नतस्य꣣ श꣡व꣢सः । ए꣡वै꣢श्च चर्षणी꣣ना꣢मू꣣ती꣡ हु꣢वे꣣ र꣡था꣢नाम् ॥३६४॥

वि꣣श्वा꣡न꣢रस्य । वि꣣श्व꣢ । नर꣣स्य । वः । प꣡ति꣢꣯म् । अ꣡ना꣢꣯नतस्य । अन् । आ꣣नतस्य । श꣡व꣢꣯सः । ए꣡वैः꣢꣯ । च꣣ । चर्षणीना꣢म् । ऊ꣣ती꣢ । हु꣣वे । र꣡था꣢꣯नाम् ॥३६४॥

Mantra without Swara
विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥

विश्वानरस्य । विश्व । नरस्य । वः । पतिम् । अनानतस्य । अन् । आनतस्य । शवसः । एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥३६४॥

Samveda - Mantra Number : 364
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे इन्द्र जगदीश्वर ! (विश्वानरस्य) सर्वजगत्संचालकस्य। विश्वं सर्वं जगत् नृणाति नयतीति विश्वानरः। पूर्वपदस्य दीर्घश्छान्दसः। नॄ नये क्र्यादिः। (अनानतस्य) क्वचिदपि अपराजितस्य (शवसः) बलस्य (पतिम्) अधीश्वरम् (वः) त्वाम् छन्दसि षष्ठीचतुर्थीद्वितीयासु एकवचनस्यापि युष्मदस्मदोर्वस्नसादेशौ दृश्येते। चर्षणीनाम् मनुष्याणाम् (एवैः) कामैः निमित्तभूतैः। एवैः कामैरिति यास्कः। निरु० १२।२०। तेषां सत्कामानां पूर्त्यर्थमिति भावः, (रथानाम्) तदीयशरीररथानाम् (ऊती) लक्ष्यं प्रति प्रेरणाय रक्षणाय च। गत्यर्थस्य रक्षणार्थस्य च अव धातोः क्तिनि निपातः ‘ऊतिः’ इति। ततः ऊतिशब्दात् चतुर्थ्येकवचने ‘सुपां सुलुक्०। ७।१।३९’ इति पूर्वसवर्णदीर्घः। अहम् (हुवे) आह्वयामि ॥ अथ द्वितीयः—राजपरः। हे राजन् ! विश्वानरस्य सर्वेभ्योऽग्रेसरस्य, (अनानतस्य) शत्रूणां पुरतः अपराजितस्य (शवसः) सैन्यस्य (पतिम्) अधीश्वरम् (वः) त्वाम् (चर्षणीनाम्) प्रजाजनानाम् (एवैः) महत्त्वाकाङ्क्षाणां प्रारब्धानां महतां कार्याणां वा पूर्त्यर्थम्। एवः इति इच्छार्थाद् गत्यर्थाद् वा इण् धातोः वन् प्रत्यये रूपम्। (रथानाम्) विमानादियानानाम् (ऊती) गमनाय च (हुवे) आह्वयामि ॥५॥ मन्त्रमिमं यास्काचार्य एवं व्याख्यातवान्—“विश्वानरस्य आदित्यस्य अनानतस्य शवसो महतो बलस्य, एवैश्च कामैः अयनैः अवनैर्वा, चर्षणीनां मनुष्याणाम्, ऊत्या च पथा रथानाम् इन्द्रमस्मिन् यज्ञे ह्वयामि” इति (निरु० १२।२०)। अत्र श्लेषालङ्कारः ॥५॥
Essence
जगदीश्वरो जीवात्मभ्यस्तज्जीवनयात्रार्थं कर्मानुसारमुत्कृष्टान् मानवशरीररथान् प्रददाति। तथैव राजा राष्ट्रे प्रजाजनानां सद्यो यात्रार्थं विमानादिरथान् प्रकल्पयेत् ॥५॥
Subject
अथ बलाधिपतिः परमेश्वरो नृपतिश्चाहूयते।
Footnote
१. ऋ० ८।६८।४।