Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 363

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣣क्थ꣡मिन्द्रा꣢꣯य꣣ श꣢ꣳस्यं꣣ व꣡र्ध꣢नं पुरुनि꣣ष्षि꣡धे꣢ । श꣣क्रो꣡ यथा꣢꣯ सु꣣ते꣡षु꣢ नो रा꣣र꣡ण꣢त्स꣣ख्ये꣡षु꣢ च ॥३६३॥

उ꣣क्थ꣢म् । इ꣡न्द्रा꣢꣯य । शँ꣡स्य꣢꣯म् । व꣡र्ध꣢꣯नम् । पु꣣रुनि꣣ष्षि꣡धे꣢ । पु꣣रु । निष्षि꣡धे꣢ । श꣣क्रः꣢ । य꣡था꣢꣯ । सु꣣ते꣡षु꣢ । नः꣣ । रार꣡ण꣢त् । स꣣ख्ये꣡षु꣢ । स꣣ । ख्ये꣡षु꣢꣯ । च꣣ ॥३६३॥

Mantra without Swara
उक्थमिन्द्राय शꣳस्यं वर्धनं पुरुनिष्षिधे । शक्रो यथा सुतेषु नो रारणत्सख्येषु च ॥

उक्थम् । इन्द्राय । शँस्यम् । वर्धनम् । पुरुनिष्षिधे । पुरु । निष्षिधे । शक्रः । यथा । सुतेषु । नः । रारणत् । सख्येषु । स । ख्येषु । च ॥३६३॥

Samveda - Mantra Number : 363
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अस्माभिः पुत्रकलत्रमित्रादिसहितैः (पुरुनिष्षिधे) पुरून् बहून् निष्षेधति निस्सारयति पापपङ्कात् सङ्कटाद् वा यस्तस्मै। पुरूपपदात् निस्पूर्वाद् गत्यर्थात् षिधु धातोः कर्तरि क्विप्। (इन्द्राय) परमोपदेशकाय परमात्मने, तादृशम् (उक्थम्) स्तोत्रम् (शंस्यम्) शंसनीयम्, यत् (वर्धनम्) स्तोतॄणामस्माकं वृद्धिकरं भवेत्, (यथा) येन (शक्रः) स सर्वशक्तिमान् परमात्मा (नः) स्तोतॄणाम् अस्माकम् (सुतेषु२) पुत्रकेषु (सख्येषु३ च) सखिषु च। सख्यं येषामस्तीति ते सख्याः ‘अर्शआदिभ्योऽच्। अ० ५।२।१२७’ इति मत्वर्थे अच् प्रत्ययः। (रारणत्४) अतिशयेन पुनः पुनः प्रेरणात्मकम् उपदेशं दद्यात्। शब्दार्थाद् रणधातोर्यङ्लुगन्ताल्लेटि रूपम् ॥४॥५
Essence
स्तुतः परमेश्वरः स्तोतृभ्यो जनेभ्यः, स्तोतृभ्यस्तत्पुत्रमित्रादिभ्यश्च पुरुषार्थादेः सत्प्रेरणां सदुपदेशं च दत्त्वा तानुन्नयति ॥४॥
Subject
इन्द्राय केन प्रयोजनेन कीदृशं स्तोत्रं शंसनीयमित्याह।
Footnote
१. ऋ० १।१०।५। २. सुतेषु अभिषुतेषु सोमेषु—इति वि०। पुत्रेषु—इति सा०। उत्पादितेषु स्वकीयसन्तानेषु—इति ऋ० १।१०।५ भाष्ये द०। ३. सखीनां कर्मसु भावेषु पुत्रस्त्रीभृत्यवर्गादिषु वा इति तत्रैव द०। ४. रारणत् अतिशयेन उपदिशति। यङ्लुगन्तस्य रणधातोर्लेट्प्रयोगः—इति तत्रैव द०। रमेरेतद् रूपम्। छान्दसेन मकारस्य णत्वम्। अत्यर्थं रमते—इति वि०। भृशं रमते। रमेर्वर्णव्यत्ययः, रणिर्वा रमेरर्थे वर्तते। यथा रारणत् तथा शस्यम्—इति भ०। यथा येन प्रकारेण रारणत् अतिशयेन शब्दं कुर्यात् तथा शंस्यम्। अस्मदीयेन शस्त्रेण परितुष्ट इन्द्रः नोऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः—इति सा०। ५. दयानन्दर्षिरस्य मन्त्रस्य ऋग्भाष्ये इन्द्रशब्देन सर्वमित्रमैश्वर्येच्छुकं जीवात्मानं, शक्रशब्देन च सर्वशक्तिमन्तं जगदीश्वरं गृहीतवान्।