Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 362

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡र्च꣢त꣣ प्रा꣡र्च꣢ता नरः꣣ प्रि꣡य꣢मेधासो꣣ अ꣡र्च꣢त । अ꣡र्च꣢न्तु पुत्र꣣का꣢ उ꣣त꣢꣫ पुर꣣मि꣢द्धृ꣣꣬ष्ण्व꣢꣯र्चत ॥३६२॥

अ꣡र्च꣢꣯त । प्र । अ꣣र्चत । नरः । प्रि꣡य꣢꣯मेधासः । प्रि꣡य꣢꣯ । मे꣣धासः । अ꣡र्च꣢꣯त । अ꣡र्च꣢꣯न्तु । पु꣣त्रकाः꣢ । पु꣣त् । त्रकाः꣢ । उ꣣त꣢ । पु꣡र꣢꣯म् । इत् । धृ꣣ष्णु꣢ । अ꣣र्चत ॥३६२॥

Mantra without Swara
अर्चत प्रार्चता नरः प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत ॥

अर्चत । प्र । अर्चत । नरः । प्रियमेधासः । प्रिय । मेधासः । अर्चत । अर्चन्तु । पुत्रकाः । पुत् । त्रकाः । उत । पुरम् । इत् । धृष्णु । अर्चत ॥३६२॥

Samveda - Mantra Number : 362
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नरः) नेतृत्वशक्तियुक्ताः स्त्रीपुरुषाः ! यूयम् (अर्चत) सपर्यत, (प्र अर्चत) प्रकर्षेण सपर्यत, हे (प्रियमेधासः) प्रियमनीषाः जनाः ! प्रियमेधः प्रिया अस्य मेधा। निरु० ३।१७। (अर्चत) सपर्यत। (पुत्रकाः उत) युष्माकं पुत्रपुत्र्योऽपि। पुत्रकाश्च पुत्रिकाश्चेत्येकशेषे पुत्रकाः इति। (अर्चन्तु) सपर्यन्तु। (पुरम्२ इत्) पूरकम् एव, न तु रेचकम्। पृणातीति पूः तम्, पॄ पालनपूरणयोरिति धातोः क्विपि रूपम्। (धृष्णु) अन्तःशत्रूणां विघ्नानां वा धर्षणशीलम् इन्द्रं जगदीश्वरम्। धृष्णुम् इति प्राप्ते, ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेर्लुक्। (अर्चत) सपर्यत। अत्र ‘अर्चत’ इति पुनरुक्तिरतिशयस्य, सातत्यस्य, अवश्यकर्तव्यत्वस्य च द्योतनार्था ॥३॥
Essence
सर्वैः स्त्रीपुरुषैः पुत्रपुत्र्यादिपरिजनसहितैः प्रातःसायं नियमेन परमेश्वरोऽर्चनीयः। अर्चितः सोऽर्चकानां मार्गे समागतान् शत्रून् विघ्नांश्च निराकृत्य तान् धर्मार्थकाममोक्षैः पूरयति ॥३॥
Subject
अथ मानवाः इन्द्रस्यार्चनार्थं प्रेर्यन्ते।
Footnote
१. ऋ० ८।६९।८, अथ० २०।९२।५ उभयत्र ‘नरः’ इति नास्ति, ‘पुरमित्’ इत्यत्र च ‘पुरं न’ इति पाठः। २. पुरमित् पुरमेव, स्तोतॄणामभिमतस्य पूरकम्—इति सा०। पुरम् इत् धृष्णु, इच्छब्द इवशब्दस्यार्थे, पुरमिव धृष्णु। यथा कश्चित् पुमान् धृष्णुं दृढम् अभिभवनं परकीयानां सेनानाम् अर्चति तद्वदर्चत इत्यर्थः—इति वि०। पुरमित् पुरमिव धृष्णु धर्षकं शत्रूणाम् इन्द्रम् अर्चत—इति भ०।