Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 361

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क꣣श्यप꣡स्य꣢ स्व꣣र्वि꣢दो꣣ या꣢वा꣣हुः꣢ स꣣यु꣢जा꣣वि꣡ति꣢ । य꣢यो꣣र्वि꣢श्व꣣म꣡पि꣢ व्र꣣तं꣢ य꣣ज्ञं꣡ धी꣢꣯रा नि꣣चा꣡य्य꣢ ॥३६१

क꣣श्य꣡प꣢स्य । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । यौ꣢ । आ꣣हुः꣢ । स꣣यु꣡जौ꣢ । स꣣ । यु꣡जौ꣢꣯ । इ꣡ति꣢꣯ । य꣡योः꣢꣯ । वि꣡श्व꣢꣯म् । अ꣡पि꣢꣯ । व्र꣣त꣢म् । य꣣ज्ञ꣢म् । धी꣡राः꣢꣯ । नि꣣चा꣡य्य꣢ । नि꣣ । चा꣡य्य꣢꣯ ॥३६१॥

Mantra without Swara
कश्यपस्य स्वर्विदो यावाहुः सयुजाविति । ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य ॥३६१

कश्यपस्य । स्वर्विदः । स्वः । विदः । यौ । आहुः । सयुजौ । स । युजौ । इति । ययोः । विश्वम् । अपि । व्रतम् । यज्ञम् । धीराः । निचाय्य । नि । चाय्य ॥३६१॥

Samveda - Mantra Number : 361
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—ब्रह्माण्डपरः। विद्वांसः (यौ) अग्नीषोमौ, अग्नितत्त्वं सोमतत्त्वं च (स्वर्विदः) यः स्वः प्रकाशम् आनन्दं वा वेदयते लम्भयति स स्वर्वित् तस्य (कश्यपस्य) पश्यकस्य सर्वद्रष्टुः इन्द्रस्य परमैश्वर्यशालिनो जगदीश्वरस्य। ‘कश्यपः पश्यको भवति, यत्सर्वं परिपश्यति’ तै० आ० १।८।८। अत्र आद्यन्तविपर्ययः। (सयुजौ) सहयोगिनौ (आहुः) कथयन्ति, (ययोः) ययोश्च अग्नीषोमयोः (विश्वम् अपि) सर्वमपि (व्रतम्) कर्म (यज्ञम्) यज्ञत्वेन आहुः वर्णयन्ति, तौ अग्नीषोमौ, अग्नितत्त्वं सोमतत्त्वं च (निचाय्य) सम्यग् विज्ञाय। चायृ पूजानिशामनयोः, भ्वादिः। हे जनाः यूयम् (धीराः) धीमन्तः पण्डिताः भवतेति शेषः ॥ यत्तदोर्नित्यसम्बन्धाद् अस्मिन् मन्त्रे ‘यौ’ इत्यनेन सह वाक्यपूर्त्त्यै ‘तौ’ इत्यध्याह्रियते ॥ इन्द्रदेवताकत्वादृचः कश्यप इति इन्द्रनाम। वेदे तस्येन्द्रस्य प्रधानसहचरौ अग्नीषोमौ, अग्निना सोमेन च सह बहुत्र तद्वर्णनात्। यथा, इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम्। (ऋ० १।२१।६), इन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् (ऋ० ७।९३।१), इत्यग्निना सह। इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम् (ऋ० २।३०।६), इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जत॒म् (अथ० ८।४।१) इति च सोमेन सह। एकस्मिन् मन्त्रे इन्द्राग्निसोमास्त्रयोऽपि सहचरिता उपलभ्यन्ते “य॒शा इन्द्रो य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत (अथ० ६।५८।२)” इति। निरुक्तेऽपि इन्द्रस्य संस्तविकेषु देवेषु सर्वतः पूर्वम् अग्नीषोमावेव वर्णितौ—“अथास्य संस्तविका देवाः, अग्निः, सोमः, वरुणः, पूषा, बृहस्पतिः, ब्रह्मणस्पतिः, पर्वतः, कुत्सः, विष्णुः, वायुः” इति (निरु० ७।१०) ॥ अग्नीषोमात्मकमिदं जगत्। अग्नीषोमौ प्रश्नोपनिषदि रयि-प्राणरूपेण वर्णितौ। “अथ कबन्धी कात्यायन उपेत्य (भगवन्तं पिप्पलादम्) पप्रच्छ—भगवन् ! कुतो ह वा इमाः प्रजाः प्रजायन्त इति। तस्मै स होवाच—प्रजाकामो वै प्रजापतिः, स तपोऽतप्यत, स तपस्तप्त्वा स मिथुनमुत्पादयते। रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति। (प्रश्न० १।३, ४)। तत्रैव प्राणो रयिश्च आदित्य-चन्द्रात्मना, उत्तरायणदक्षिणायनात्मना, शुक्ल-कृष्णपक्षात्मना, अहोरात्रात्मना चापि वर्णितौ (प्रश्न० १।५-१३)। शतपथेऽप्युक्तम्—सूर्य एवाग्नेयः, चन्द्रमाः सौम्यः। अहरेवाग्नेयं रात्रिः सौम्या, य एवापूर्यतेऽर्धमासः स आग्नेयो, योऽपक्षीयते स सौम्यः। (श० १।६।३।२४) इति। एतावेव अग्नीषोमौ इन्द्रस्य सहचरत्वेनास्मिन् मन्त्रेऽभिप्रेतावित्युन्नेयम्। इन्द्रः परमेश्वरः एतयोर्माध्यमेन जगदुत्पादयति सञ्चालयति च। किञ्च एतयोर्विश्वमपि कर्म यज्ञरूपम् इत्यपि मन्त्रे प्रोक्तम्। अन्यत्रापि वेद एतयोर्महिमानं वर्णयन्नाह—“यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सुक्र॑तू अधत्तम्। यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥ अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम्।” ऋ० १।९३।५, ६ ॥ ये तावद् इन्द्रसहयुजोः अग्नीषोमयोर्वेदप्रतिपादितमेतन्महत्त्वं विदन्ति त एव पण्डिता इति मन्तव्यम् ॥ अथ द्वितीयः—शरीरपरः। विद्वांसः (यौ) अग्नीषोमौ बुद्धिमनसी, प्राणापानौ वा। प्राणापानौ अग्नीषोमौ। ऐ० ब्रा० १।८। (स्वर्विदः) यः स्वः विवेकप्रकाशम् आनन्दं वा विन्दते तस्य (कश्यपश्य) द्रष्टुः, ज्ञानस्य ग्रहीतुः इन्द्रस्य जीवात्मनः (सयुजौ)) सहयोगिनौ (आहुः) कथयन्ति, (ययोः) ययोश्च बुद्धिमनसोः प्राणापानयोर्वा (विश्वम् अपि) सर्वमपि (व्रतम्) कर्म (यज्ञम्) ज्ञानयज्ञं देहसञ्चालनयज्ञं वा आहुः कथयन्ति, ते बुद्धिमनसी, तौ प्राणापानौ वा (निचाय्य) सम्यग् बुद्ध्वा, प्रयुज्य सबलीकृत्य च हे जनाः ! यूयम् (धीराः) धीः ज्ञानबोधो येषामस्ति ते धीराः, यद्वा दधति शरीरं ये ते धीराः, तादृशा भवतेति शेषः। धी शब्दान्मतुबर्थे रन् प्रत्ययः, यद्वा धा धातोः ‘सु-सू-धाञ्-गृधिभ्यः क्रन्। उ० २।२५’ इति क्रन् प्रत्ययः। बुद्धिमनसोः सम्यगुपयोगं विधाय ज्ञानेन्द्रियाणां साहाय्येन ज्ञानं सञ्चेतुं क्षमाः, प्राणायामेन च प्राणापानौ वशीकृत्य देहधारणक्षमाः भवतेति भावः ॥ अथ तृतीयः—राष्ट्रपरः। राजनीतिज्ञाः विद्वांसः (यौ) अग्नीषोमौ अमात्यसेनाधीशौ। अग्निः सेनाधीशः सोमोऽमात्य इति विज्ञेयम्। (स्वर्विदः) स्वः सुखं प्रजाभ्यो वेदयते लम्भयति यः तस्य (कश्यपश्य) राजपुरुषाणां कार्यस्य, प्रजायाः सुखदुःखादिकस्य च द्रष्टुः इन्द्रस्य राज्ञः (सयुजौ) सहायकौ (आहुः) कथयन्ति, (ययोः) ययोश्च अमात्यसेनाधीशयोः (विश्वम् अपि) सर्वमपि (व्रतम्) राज्यसञ्चालनशत्रुनिवारणादिरूपं कर्म (यज्ञम्) राष्ट्रयज्ञपूर्तिरूपम् आहुः कथयन्ति, तौ (निचाय्य) सम्यक् सत्कृत्य, हे प्रजाजनाः यूयम् (धीराः) धृतराष्ट्राः भवत ॥ अग्नीषोमयोः राज्याधिकारिणोः राजानम् इन्द्रं प्रति सहयोगम् अथर्ववेदः इत्थं वर्णयति—“इ॒दं तद् यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये ॥ अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं युज उत्त॑रम्। (अथ० ६।५४।१, २)” इति ॥ अथ चतुर्थः—आदित्याहोरात्रपरः। विद्वांसः (यौ) अग्नीषोमौ अहोरात्रौ। अहोरात्रे वा अग्नीषोमौ। कौ० ब्रा० १०।३। (स्वर्विदः) प्रकाशलम्भकस्य (कश्यपस्य) पश्यकस्य पदार्थानां दर्शयितुः यद्वा कशे गतौ साधुः कश्यः गतिमयः पृथिव्यादिलोकः तं पाति रक्षतीति कश्यपः आदित्यात्मा इन्द्रः तस्य। कश गतिशासनयोः भ्वादिः। (सयुजौ) सहयुजौ (आहुः) कथयन्ति। अहोरात्रयोः आदित्याश्रितत्वात्। (ययोः) ययोश्च अहोरात्रयोः (विश्वम् अपि) सर्वम् एव (व्रतम्) कर्म (यज्ञम्) यज्ञात्मकम्, परोपकारात्मकम् आहुः कथयन्ति द्रष्टारो जनाः, तौ अहोरात्रौ (निचाय्य) सम्यक् विज्ञाय, हे जनाः ! यूयम् (धीराः) अहोरात्रवत् परोपकारधीसम्पन्नाः भवत ॥२॥१ अत्र श्लेषालङ्कारः ॥२॥
Essence
परमेश्वरस्य सहचरे अग्निसोमतत्त्वे, जीवात्मनः सहचरे बुद्धिमनसी प्राणापानौ वा, नृपस्य सहचरौ अमात्यसेनाधीशौ, आदित्यस्य सहचरौ अहोरात्रौ च सम्यग् विज्ञाय ताभ्यां यथायोग्यं लाभाः सर्वैः प्राप्तव्याः ॥२॥
Subject
अथेन्द्रस्य सहयोगिनोर्विषयमाह।
Footnote
१. भरतस्वामिव्याख्याने तु कश्यपः प्रजापतिरादित्यो वा। तस्य सयुजौ मित्रावरुणौ, ‘अहर्वै मित्रो रात्रिर्वरुणः’ इति, सर्वस्य कालस्य तयोरेवान्तर्भावात्। इन्द्राग्नी वा, तयोरेव सर्वनिर्वाहकत्वात्। अश्विनौ वातयोरादित्यपुत्रत्वप्रसिद्धेः। सायणेन कश्यपः सर्वज्ञः इन्द्रः, तत्सयुजौ च तस्य अश्वौ इति पूर्वं व्याख्याय, तदनु भरतस्वामिनमनुसृत्य कश्यपः प्रजापतिः, तस्य सयुजौ च मित्रावरुणौ इन्द्राग्नी वेत्युक्तम्। वस्तुतस्तु इन्द्र एवास्या ऋचो देवतेत्यस्माभिस्तदनुकूलमेव व्याख्यातम्। इन्द्रस्य बहुषु वाच्यार्थेषु आदित्योऽपि भवतीति आदित्यपरमपि व्याख्यातुमलम्।