Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 360

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡प्र꣢ वस्त्रि꣣ष्टु꣢भ꣣मि꣡षं꣢ व꣣न्द꣡द्वी꣢रा꣣ये꣡न्द꣢वे । धि꣣या꣡ वो꣢ मे꣣ध꣡सा꣢तये꣣ पु꣢र꣣न्ध्या꣡ वि꣢वासति ॥३६०॥

प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वः । त्रिष्टु꣢भ꣢म् । त्रि꣣ । स्तु꣡भ꣢꣯म् । इ꣡ष꣢꣯म् । व꣣न्दद्वी꣡रा꣣य । व꣣न्द꣢त् । वी꣣राय । इ꣡न्द꣢꣯वे । धि꣣या꣢ । वः꣣ । मेध꣡सा꣢तये । मे꣣ध꣢ । सा꣣तये । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । आ꣢ । वि꣣वासति । ॥३६०॥

Mantra without Swara
प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति ॥

प्रप्र । प्र । प्र । वः । त्रिष्टुभम् । त्रि । स्तुभम् । इषम् । वन्दद्वीराय । वन्दत् । वीराय । इन्दवे । धिया । वः । मेधसातये । मेध । सातये । पुरन्ध्या । पुरम् । ध्या । आ । विवासति । ॥३६०॥

Samveda - Mantra Number : 360
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (वः) यूयम् (वन्दद्वीराय२) वन्दन्ते वीराः वीरजनाः यं स वन्दद्वीरः तस्मै, वीरजनस्तुतायेत्यर्थः (इन्दवे) दीप्ताय, स्नेहवर्षकाय, चन्द्रवदाह्लादकाय वा इन्द्राय परमात्मने। ‘इन्दुः इन्धेः उनत्तेर्वा’ निरु० १०।४१। (त्रिष्टुभम्३) त्रीणि आध्यात्मिकाधिभौतिकाधिदैविकानि (सुखानि) स्तोभते स्तभ्नाति या ताम्, यद्वा त्रिभिः ज्ञानकर्मोपासनैः स्तोभ्यते या ताम्। त्रि पूर्वात् स्तभु स्तम्भे धातोः क्विपि रूपम्। (इषम्) प्रीतिं श्रद्धां च (प्र प्र४) प्रार्पयत, प्रार्पयत। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। प्रीत्या श्रद्धया च पूजितः सः (मेधसातये) योगयज्ञस्य पूर्णतायै। मेध इति यज्ञनाम। निघं० ३।१७। सातिरिति सम्भजनार्थात् षण धातोः क्तिन्नन्तो निपातः। (पुरन्ध्या) पुरं पूर्तिं दधातीति पुरंधिः तया। पॄ पालनपूरणयोः धातोः क्विपि ‘पुर्’ इति जायते, तदुपपदाद् दधातेः किः प्रत्ययः। (धिया) ऋतम्भरया प्रज्ञया (आ विवासति) परिचरति, संयोजयतीत्यर्थः। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥१॥
Essence
वीरा अपि स्वविजयस्य कारणं परमात्मानमेव मन्यमाना यं मुहुर्मुहुर्वन्दन्ते स सर्वैरेव प्रीत्या श्रद्धया च कुतो न वन्दनीयः ॥१॥
Subject
तत्रादौ स्तुतः परमेश्वरः किं करोतीत्याह।
Footnote
१. ऋ० ८।६९।१ ‘वन्दद्’ इत्यत्र ‘मन्दद्’ इति पाठः। २. वन्दद्वीराय अधिकविक्रान्ताय इत्यर्थः—इति वि०। भरतस्तु मन्दद्वीराय इति पाठं मत्वा व्याख्याति। मादयति वीरान् स्तोतॄनिति मन्दद्वीरः—इति भ०। यो वीरान् स्तौति स वन्दद्वीरः तस्मै—इति सा०। ३. (त्रिष्टुभ्) याऽऽध्यात्मिकाऽऽधिभौतिकाऽऽधिदैविकानि त्रीणि सुखानि स्तोभते स्तभ्नाति सा—इति य० २३।३३ भाष्ये द०। त्रिभिः स्तुतम्, अथवा त्रिष्टुप्छन्दोयुक्तम्, स्तुतिसंयुक्तमित्यर्थः—इति वि०। त्रिस्तोत्रम् इषम् अन्नम्, सोममित्यर्थः। त्रिष्वपि अभिषवेषु पवमानस्य स्तुतिः क्रियते। स्तोभतेः स्तुतिकर्मणः स्तुप्—इति भ०। स्तोभत्रयोपेतम्—इति सा०। ४. ‘प्रसमुपोदः पादपूरणे। अ० ८।१।६’ इति पादपूरणे प्रोपसर्गस्य द्वित्वं विहितम्। वस्तुतस्तु उपसर्गपुनरुक्त्या पुनरुक्ता क्रिया भूयांसमर्थं द्योतयतीति न पादपूरणमात्रं प्रयोजनम्।