Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 36

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
पा꣣हि꣡ नो꣢ अग्न꣣ ए꣡क꣢या पा꣣ह्यू꣡३꣱त꣢ द्वि꣣ती꣡य꣢या । पा꣣हि꣢ गी꣣र्भि꣢स्ति꣣सृ꣡भि꣢रूर्जां पते पा꣣हि꣡ च꣢त꣣सृ꣡भि꣢र्वसो ॥३६॥

पा꣣हि꣢ । नः꣣ । अग्ने । ए꣡क꣢꣯या । पा꣣हि꣢ । उ꣣त꣢ । द्वि꣣ती꣡य꣢या । पा꣣हि꣢ । गी꣣र्भिः꣢ । ति꣣सृ꣡भिः꣢ । ऊ꣣र्जाम् । पते । पाहि꣢ । च꣣तसृ꣡भिः꣢ । व꣣सो ॥३६॥

Mantra without Swara
पाहि नो अग्न एकया पाह्यू३त द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥

पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया । पाहि । गीर्भिः । तिसृभिः । ऊर्जाम् । पते । पाहि । चतसृभिः । वसो ॥३६॥

Samveda - Mantra Number : 36
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (ऊर्जां पते) अन्नानां रसानां बलानां प्राणानां चाधिपते ! ऊर्जम् अन्नं रसं चेति निरुक्तम्। ९।४१। ऊर्जं बलप्राणनयोः, क्विप्। (वसो) वसति सर्वत्र वासयति वेति (वसुः), तादृश सर्वान्तर्यामिन् सर्वनिवासप्रद (अग्ने) परमात्मन् ! त्वम् (नः) अस्मान् (एकया) ऋग्रूपया गिरा (पाहि) रक्ष, (उत) अपि च (द्वितीयया) यजुराख्यया गिरा (पाहि) रक्ष। (तिसृभिः) ऋग्यजुः- सामात्मिकाभिः संमिलिताभिः (गीर्भिः) वाग्भिः (पाहि) रक्ष। (चतसृभिः) ऋग्यजुःसामाथर्वरूपाभिः संमिलिताभिः वाग्भिः, (पाहि) रक्ष।२ अत्र चतुःकृत्वः पाहि इति पाठात् परमेश्वरेण करणीयाया रक्षायाः सातत्यं द्योत्यते ॥ अथ द्वितीयः—विद्वत्परः। हे (ऊर्जां पते) बलानां पालक, (वसो) सुवासप्रद (अग्ने) पावकवद् विद्वन् ! त्वम् (एकया) सुशिक्षया (नः) अस्मान् (पाहि) रक्ष, (उत) अपिच (द्वितीयया) अध्यापनक्रियया (पाहि) रक्ष, (तिसृभिः) कर्मोपासनाज्ञानज्ञापिकाभिः (गीर्भिः) वाग्भिः (पाहि) रक्ष, (चतसृभिः) धर्मार्थकाममोक्षविज्ञापिकाभिः वाग्भिः (पाहि) रक्ष ॥२॥३
Essence
चतस्रो वेदवाचः परमेश्वरेणास्माकं हिताय प्रदत्ताः सन्ति। यदि वयं वेदवर्णितान्ज्ञानकर्मोपासनाविज्ञानविषयानधीत्य कर्तव्यकर्माण्याचराम- स्तदा निःसंशयं वयं रक्षिता भवामः। विद्वभिर्वेदानध्याप्य वेदविहितान् धर्मार्थकाममोक्षाँश्चोपदिश्यास्माकं रक्षा विधेया ॥२॥
Subject
अथ परमेश्वरो विद्वाँश्च प्रार्थ्यते।
Footnote
१. ऋ० ८।६०।९, य० २७।४३, साम० १५४४। २. गिरा एकया ऋग्लक्षणया। द्वितीयया गिरा यजुर्लक्षणया। तिसृभिर्गीर्भिः ऋग्यजुःसामलक्षणाभिः। चतसृभिः ऋग्यजुःसामनिगद- लक्षणाभिः—इति वि०। ३. अयं विद्वत्परोऽर्थः य० २७।४३ इत्यस्य दयानन्दभाष्यमनुसरति। ४. यह विद्वत्परक अर्थ य० २७।४३ के दयानन्द-भाष्य के अनुसार है।