Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 359

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत । इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣡ ॥३५९॥

पु꣣रा꣢म् । भि꣣न्दुः꣢ । यु꣡वा꣢꣯ । क꣣विः꣢ । अ꣡मि꣢꣯तौजाः । अ꣡मि꣢꣯त । ओ꣣जाः । अजायत । इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । क꣡र्म꣢꣯णः । ध꣣र्त्ता꣢ । व꣣ज्री꣢ । पु꣣रुष्टुतः꣢ । पु꣣रु । स्तुतः꣢ ॥३५९॥

Mantra without Swara
पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥

पुराम् । भिन्दुः । युवा । कविः । अमितौजाः । अमित । ओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्त्ता । वज्री । पुरुष्टुतः । पुरु । स्तुतः ॥३५९॥

Samveda - Mantra Number : 359
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (पुराम्) मनसि दृढं बद्धानाम् तमःपुरीणाम् (भिन्दुः) भेत्ता। भिदिर् विदारणे धातोः ‘पॄभिदिव्यधिगृधिधृषिहृषिभ्यः। उ० १।२३’ इति कुः, बाहुलकान्नुमागमः। (युवा) नित्यतरुणः, अजरामरः, (कविः) वेदरूपस्य काव्यस्य कर्ता, क्रान्तदर्शी वा, (अमितौजाः) अपरिमिततेजाः, (वज्री) न्यायदण्डधरः, (पुरुष्टुतः) बहुस्तुतः (इन्द्रः) ब्रह्माण्डस्य सम्राट् परमात्मा (विश्वस्य कर्मणः) सूर्यचन्द्रपृथिव्यादिभ्रमण-ऋतुनिर्माण-सरित्प्रवाह-वृष्टि-पापपुण्यफलप्रदानादिकस्य सकलस्यापि व्यापारस्य (धर्ता) धारकः, नियामकः (अजायत) जातोऽस्ति ॥ अथ द्वितीयः—राष्ट्रपरः। (पुराम्) शत्रुनगरीणाम् शत्रुदुर्गाणां वा (भिन्दुः) भेत्ता, (युवा) यौवनसम्पन्नः, (कविः) राजनीतिशास्त्रस्य पण्डितः, क्रान्तद्रष्टा वा। कविः इति मेधाविनाम। निघं० ३।१५। कविः क्रान्तदर्शनो भवति कवतेर्वा। निरु० १२।१३। (अमितौजाः) अपरिमेयपराक्रमः, (वज्री) विविधानां शस्त्रास्त्राणां संग्रहीता तच्चालनकुशलश्च, (पुरुष्टुतः) बहुभिः प्रजाजनैः कीर्तितः (इन्द्रः) शूरवीरो राजा सेनापतिर्वा (विश्वस्य कर्मणः) सकलस्य राजकार्यस्य सैन्यसंघटनकार्यस्य वा (धर्ता) धारकः (अजायत) जायते ॥ अथ तृतीयः—सूर्यपरः। (पुराम्) अन्धकार-मेघ-हिमादिपुरीणाम् (भिन्दुः) भेदकः, (युवा) पदार्थानां मिश्रणामिश्रणकर्ता। यु मिश्रणामिश्रणयोरिति धातोः ‘कनिन् यु-वृषि-तक्षि-राजि-धन्वि-द्यु-प्रतिदिवः। उ० १।१५६’ इति सूत्रेण कनिन् प्रत्ययः। (कविः) यः कवते गच्छति परिक्रामति स्वधुरि, यद्वा कवयति गमयति परिक्रमयति स्वं परितः पृथिवीमङ्गलबुधचन्द्रादिग्रहोपग्रहान् सः। असौ वादित्यः कविः। श० ६।७।२।४। (अमितौजाः) अपरिमितबलः अपरिमितप्रकाशो वा, (वज्री) किरणरूपवज्रवान्, (पुरुष्टुतः) बहुभिः खगोलज्योतिर्विद्भिर्वैज्ञानिकैर्वर्णितः (इन्द्रः) सूर्यः। अथ यः स इद्रोऽसौ स आदित्यः। श० ८।५।३।२। इति प्रामाण्यात्। (विश्वस्य कर्मणः) सौरलोके दृश्यमानस्य सर्वस्य प्राकृतिकस्य व्यापारस्य (धर्ता) धारकः (अजायत) सञ्जातोऽस्ति ॥८॥२ अत्र श्लेषालङ्कारः ॥८॥
Essence
यथा राष्ट्रस्य सम्राट् सर्वस्य राज्यकार्यस्य सेनापतिर्वा सैन्यसंघटनकार्यस्य नेता भवति, यथा वा सूर्यः सौरमण्डलस्य धर्ता विद्यते, तथैव विविधलोकलोकान्तरसमष्टिरूपे महति ब्रह्माण्डे विद्यमानायाः सम्पूर्णव्यवस्थायाः कर्ता राजाधिराजः परमेश्वरोऽस्तीति सर्वैर्मन्तव्यम् ॥८॥ अत्रेन्द्रस्य महिमवर्णनात्, तं प्रत्यात्मसमर्पणादिप्रेरणाद्, इन्द्रनाम्ना नृपतिसेनापत्याचार्यादीनां चापि कर्तव्यवर्णनाद् एतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम्। इति चतुर्थे प्रपाठके द्वितीयार्द्धे द्वितीया दशतिः ॥ इति चतुर्थेऽध्याये प्रथमः खण्डः ॥
Subject
अथेन्द्रनाम्ना परमेश्वरनृपसूर्यादीनां महिमानं वर्णयति।
Footnote
१. ऋ० १।११।४, साम० १२५०। २. एष मन्त्रो दयानन्दर्षिणा ऋग्भाष्ये सेनापतिविषये सूर्यविषये च व्याख्यातः।