Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 358

1875 Mantra
Devata- दधिक्रा Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
द꣣धिक्रा꣡व्णो꣢ अकारिषं जि꣣ष्णो꣡रश्व꣢꣯स्य वा꣣जि꣡नः꣢ । सु꣣रभि꣢ नो꣣ मु꣡खा꣢ कर꣣त्प्र꣢ न꣣ आ꣡यू꣢ꣳषि तारिषत् ॥३५८॥

द꣣धिक्रा꣡व्णः꣢ । द꣣धि । क्रा꣡व्णः꣢꣯ । अ꣣कारिषम् । जिष्णोः꣢ । अ꣡श्व꣢꣯स्य । वा꣣जि꣡नः꣢ । सु꣣रभि꣢ । सु꣣ । रभि꣢ । नः꣣ । मु꣡खा꣢꣯ । मु । खा꣣ । करत् । प्र꣢ । नः꣢ । आ꣡यूँ꣢꣯षि । ता꣣रिषत् ॥३५८॥

Mantra without Swara
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूꣳषि तारिषत् ॥

दधिक्राव्णः । दधि । क्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः । सुरभि । सु । रभि । नः । मुखा । मु । खा । करत् । प्र । नः । आयूँषि । तारिषत् ॥३५८॥

Samveda - Mantra Number : 358
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। अहम् (जिष्णोः) जयशीलस्य विजयप्रदानशीलस्य च, (अश्वस्य) सकलशुभगुणव्याप्तस्य, (वाजिनः) बलविज्ञानवतः (दधिक्राव्णः) यो दधीन् धारकान् पृथिवीचन्द्रसूर्यनक्षत्रादिलोकान् स्वधुरि किञ्चित् पिण्डं परितो वा क्रमयति परिक्रमयतीति तस्य। दधातीति दधिः, दधातेः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७।’ इति किः प्रत्ययः लिड्वच्च। दधिपूर्वात् क्रमु पादविक्षेपे धातोः ‘अन्येभ्योऽपि दृश्यते। अ० ३।२।७५’ इति वनिप् प्रत्ययः। यद्वा दधीन् स्तोत्रधारकान् धर्मधारकान् सद्गुणधारकान् वा क्रमयति कर्मयोगिनः करोतीति तस्य जगदीश्वरस्य (अकारिषम्) स्वागतं करोमि। अत्र करोतेर्लडर्थे लुङ्। स्वागतवचनेन सत्कृतः स दधिक्रावा जगदीश्वरः (नः) अस्माकं (मुखा) मुखानि (सुरभि) सुरभीणि, कटुवचनपरनिन्दादिरहितमधुरसत्यभाषणसौरभसम्पन्नानि। मुखा, सुरभि इत्युभयत्र ‘शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति शिलोपः। (करत्) कुर्यात्, (नः) अस्माकम् (आयूंषि) वयोवर्षाणि च (प्र तारिषत्) प्रवर्द्धयेत्। (प्र पूर्वस्तरतिर्वर्द्धनार्थः। ‘करत्’ इति करोतेः, ‘तारिषत्’ इति च तॄ प्लवनसंतरणयोः इत्येतस्य लेटि तिपि रूपम्, द्वितीये ‘सिब्बहुलं लेटि। अ० ३।१।२४’ इति सिबागमः, तस्य च णिद्वत्त्वाद् वृद्धिः। उभयत्र ‘इतश्च लोपः परमैपदेषु। अ० ३।४।९७’ इति तिप इकारलोपः ॥ अथ द्वितीयः—यज्ञाग्निपरः। अहम् (जिष्णोः) रोगादिजयशीलस्य, (अश्वस्य) व्यापनस्वभावस्य, (वाजिनः) हव्यान्नवतः (दधिक्राव्णः२) दधिः हव्यानि धृतवान् सन् तानि भस्मीकृत्य रूपान्तरं नीत्वा क्रमयति वायुमाध्यमेन देशान्तरं प्रापयतीति तस्य आहवनीयस्याग्नेः (अकारिषम्) यज्ञे उपयोगं करोमि, तस्मिन् हव्यानि जुहोमीत्यर्थः। हुतः स यज्ञाग्निः (नः) अस्माकम् (मुखा) मुखम्, मुखवर्तिनासिकाप्रदेशम्। अत्र ‘सुपां सुलुक्। अ० ७।१।३९’ इति द्वितीयैकवचनस्य आकारादेशः। (सुरभि) सौरभयुक्तम् (करत्) कुर्यात्, (नः आयूंषि प्रतारिषत्) अग्निहोतॄणामस्माकम् आयुर्वर्षाणि च प्रवर्द्धयेत्, नियमेनाग्नौ होमं कुर्वन्तो वयं चिरं जीवेमेत्यर्थः ॥ अग्नौ हुतेन सुगन्धिना हव्येन सुरभिगन्धिर्वायुर्यदा श्वासप्रश्वासक्रियया फुप्फुसाभ्यन्तरं गच्छति तदा रक्तं संशोध्य तत्र जीवनदायकं तत्त्वं समावेश्य तन्मालिन्यमपहृत्य बहिर्निस्सारयति। तेन स्वास्थ्य-लाभो दीर्घमायुश्च जायते। तथा च श्रुतिः—आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑। त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से (ऋ० १०।१३७।३) इति। ‘मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्। ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम्’ (ऋ० १०।१६१।१) इति च। अत्र इन्द्राग्नी वाय्वग्नी इति ज्ञेयम् ॥ अथ तृतीयः—राजपरः। अहम् (जिष्णोः) विजयशीलस्य (अश्वस्य) अश्वरूपस्य, अश्ववद् राष्ट्ररथं वहतः इत्यर्थः, (वाजिनः) अन्नाद्यैश्वर्यवतो, बलवतः, संग्रामसमर्थस्य च। वाज इत्यन्ननाम, बलनाम, संग्रामनाम च। निघं० २।७, २।९, २।१७। वाजी वेजनवान् निरु० २।२८। (दधिक्राव्णः३) यो राज्ये दधीनि बहुजनद्रव्यादिधारकाणि विमानादियानानि क्रमयति सञ्चालयति तस्य नृपतेः (अकारिषम्) राज्यनियमानां पालनं करोमि। (सः) असौ नृपतिः सदाचारमार्गे प्रवर्त्य (नः) अस्माकम् (मुखा) मुखानि (सुरभि) यशःसौरभवन्ति (करत्) कुर्यात्, किञ्च (नः) अस्माकम् प्रजाजनानाम् (आयूंषि) आयुर्वर्षाणि (प्र तारिषत्) प्रवर्द्धयेत्। आयुर्वेदशिक्षणेन, चिकित्सासुप्रबन्धेन, कृषिवाणिज्यपशुपालनोत्कर्षेण, हिंसोपद्रवादिनिवारणेन, शत्रुच्छेदेन एवंविधसकलोपायप्रचारणेन राष्ट्रवासिनोऽकालमृत्युग्रासात् संरक्षेदित्यर्थः ॥७॥४ वेदे ‘दधिक्राः’ ‘दधिक्रावा’ चेत्युभयमपि प्रयुक्तम्। उभयोः प्रत्ययस्यैव भेदः, प्रथमं विट्प्रत्ययान्तं, द्वितीयं च वनिप्प्रत्ययान्तम्। ‘दधिक्राः’ इति पदं यास्काचार्य एवं निर्वक्ति—‘दधिक्रा इत्येतद् दधत् क्रामतीति वा, दधत् क्रन्दतीति वा, दधदाकारी भवतीति वा। तस्याश्ववद् देवतावच्च निगमा भवन्ति (निरु० २।२७)’ इति। तदेव निर्वचनं ‘दधिक्रावा’ इति पदस्यापि तन्मते विज्ञेयम् ॥ अत्र श्लेषालङ्कारः तृतीयचतुर्थपादयोरन्त्यानुप्रासश्च। ‘दधिक्राव्णः, अश्वस्य, वाजिनः’ इति सर्वेषामश्ववाचित्वात् पुनरुक्तत्वप्रतीतेः, यौगिकत्वेन च तत्परिहारात्, पुनरुक्तवदाभासोऽलङ्कारः ॥७॥
Essence
परमात्मस्तवनेनाग्निहोत्रेण राजनियमपालनेन चास्माभिर्यशःसौरभं दीर्घायुष्यं च प्राप्तव्यम् ॥७॥ यजुर्वेदभाष्ये महीधरः कात्यायनश्रौतसूत्रस्याश्वमेधविधिमनुसरन् ‘महिषीं’ यजमानस्य प्रथमपरिणीतां पत्नीमश्वसमीपसुप्तामुत्थाप्य पुरुषा अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारो मन्त्रं पठेयुरित्याह। किञ्च ‘सुरभि नो मुखा करत्’ इति व्याचक्षाणः ‘अश्लीलभाषणेन दुर्गन्धं प्राप्तानि मुखानि सुरभीणि यज्ञः करोत्विति’ प्रतिपादयाञ्चक्रे। तत्सर्वं प्रलपितमात्रम्। कः खलु सुधीर्यः पूर्वमश्लीलभाषणं कृत्वा मुखानि दुर्गन्धतां नयेत्, पश्चाच्च शोधनोपायमन्विष्येत्। ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्याय एव किमिति नानुस्रियेत ॥
Subject
दधिक्रावा अग्निर्देवता। तन्नाम्ना परमात्मानं, यज्ञाग्निं, राजानं च स्तौति।
Footnote
१. ऋ० ४।३९।४, य० २३।३२ ऋषिः प्रजापतिः, अ० २०।१३७।३। २. दधिक्रावा अग्निविशेषः। ....धारयति क्रामयति देशान्तरं प्रापयति इति दधिक्रावा अग्निः। क्रमेर्वनिप्प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ (पा० ६।७।४१) इति अनुनासिकस्याकारादेशः। दधिक्राव्णो देवस्य परिचरणम् अकारिषम्—इति भ०। ३. (दधिक्रावाणम्) धारकाणां यानानां क्रामयितारं गमयितारम् इति ऋ० ७।४४।३ भाष्ये द०। ४. दयानन्दर्षिर्मन्त्रमेतम् ऋग्भाष्ये यजुर्भाष्ये च राजप्रजाविषये व्याख्यातवान्।