Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 357

1875 Mantra
Devata- इन्द्रः Rishi- शंयुर्बार्हस्पत्यः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्य꣡मु꣢ वो꣣ अ꣡प्र꣢हणं गृणी꣣षे꣡ शव꣢꣯स꣣स्प꣡ति꣢म् । इ꣡न्द्रं꣢ विश्वा꣣सा꣢हं꣣ न꣢र꣣ꣳ श꣡चि꣢ष्ठं वि꣣श्व꣡वे꣢दसम् ॥३५७॥

त्य꣢म् । उ꣣ । वः । अ꣡प्र꣢꣯हणम् । अ । प्र꣣हणम् । गृणीषे꣢ । श꣡व꣢꣯सः । प꣡ति꣢꣯म् । इ꣡न्द्र꣢꣯म् । विश्वा꣣सा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । न꣡र꣢꣯म् । श꣡चि꣢꣯ष्ठम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् ॥३५७॥

Mantra without Swara
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरꣳ शचिष्ठं विश्ववेदसम् ॥

त्यम् । उ । वः । अप्रहणम् । अ । प्रहणम् । गृणीषे । शवसः । पतिम् । इन्द्रम् । विश्वासाहम् । विश्वा । साहम् । नरम् । शचिष्ठम् । विश्ववेदसम् । विश्व । वेदसम् ॥३५७॥

Samveda - Mantra Number : 357
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे प्रजाजनाः ! अहम् (वः)युष्मभ्यम्, अस्मभ्यं चेत्यपि ध्वन्यते, युष्माकमस्माकं च हितायेत्यर्थः (त्यम् उ) तं प्रख्यातम्, (अप्रहणम्२) न केनापि प्रहन्तुं शक्यम्, यद्वाऽन्यायेन कञ्चित् न घ्नन्तम्। अत्र प्र पूर्वाद् हन्तेः कर्मणि कर्तरि वा क्विप्, नञ्समासः। (शवसः पतिम्) बलस्य सैन्यस्य वा अधीश्वरम्, (विश्वासाहम्) यो विश्वान् शत्रून् विघ्नान् वा सहते अभिभवति तम्। अत्र विश्वपूर्वात् सह धातोः ‘छन्दसि सहः। अ० ३।१।६३’ इति ण्विः ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घश्च। (नरम्) नेतारम्, (शचिष्ठम्) अतिशयेन कर्मनिष्ठम्। अतिशयेन शचीमान् इति शचिष्ठः। अतिशायने इष्ठनि ‘विन्मतोर्लुक्। अ० ५।३।६५’ इति मतोर्लुक्। (विश्ववेदसम्) यो ब्रह्माण्डस्य राष्ट्रस्य वा विश्वं घटनाचक्रं वेत्ति तम् (इन्द्रम्) शूरं परमात्मानं राजानं वा (गृणीषे) गुणकर्मवर्णनेन स्तौमि। गॄ शब्दे धातोर्लेट्युत्तमैकवचने रूपम्। ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिप् ॥६॥३
Essence
ये प्रजानां हितमिच्छन्ति तैरमात्यपुरोहितादिभिः मन्त्रोक्तगुणगणालङ्कृतो जगदीश्वरो गुणकर्मकीर्तनद्वारा तद्गरिम्णो गानद्वारा च सर्वत्र प्रचारणीयस्तादृशो नरेश्वरश्च गुणवर्णनेन कर्त्तव्यं प्रति प्रोत्साहनीयः ॥६॥
Subject
अथेन्द्रपदवाच्यः परमात्मा राजा च कीदृशोऽस्तीत्याह।
Footnote
१. ऋ० ६।४४।४, ‘मंहिष्ठं विश्वचर्षणिम्’ इति चतुर्थः पादः। २. (अप्रहणम्) योऽन्यायेन कञ्चिन्न प्रहन्ति तम्—इति ऋ० ६।४४।४ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं राजप्रजाविषये व्याख्यातवान्।