Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 356

1875 Mantra
Devata- मरुतः Rishi- श्यावाश्व आत्रेयः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢दी꣣ व꣡ह꣢न्त्या꣣श꣢वो꣣ भ्रा꣡ज꣢माना꣣ र꣢थे꣣ष्वा꣢ । पि꣡ब꣢न्तो मदि꣣रं꣢꣫ मधु꣣ त꣢त्र꣣ श्र꣡वा꣢ꣳसि कृण्वते ॥३५६

य꣡दि꣢꣯ । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ । भ्रा꣡ज꣢꣯मानाः । र꣡थे꣢꣯षु । आ । पि꣡ब꣢꣯न्तः । म꣣दिर꣢म् । म꣡धु꣢꣯ । त꣡त्र꣢꣯ । श्र꣡वाँ꣢꣯सि । कृ꣣ण्वते ॥३५६॥

Mantra without Swara
यदी वहन्त्याशवो भ्राजमाना रथेष्वा । पिबन्तो मदिरं मधु तत्र श्रवाꣳसि कृण्वते ॥३५६

यदि । वहन्ति । आशवः । भ्राजमानाः । रथेषु । आ । पिबन्तः । मदिरम् । मधु । तत्र । श्रवाँसि । कृण्वते ॥३५६॥

Samveda - Mantra Number : 356
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यदि१) यस्मिन् काले। यदि इति निपातो ‘यदा’ वाचकोऽपि दृश्यते। संहितायां निपातत्वाद् दीर्घः। (रथेषु) देहरथेषु (भ्राजमानाः) तेजसा दीप्यमानाः (आशवः) क्षिप्रकारिणः मरुतः मनोबुद्धिज्ञानेन्द्रियात्मकाः शीर्षण्यप्राणाः, (मदिरम्) आनन्दजनकम्। मदी हर्षे धातोः ‘इषिमदिमुदिखिदि० उ० १।५१’ इति किरच् प्रत्ययः। (मधु) स्वस्वविषयाणां संकल्पाध्यवसायरूपरसगन्धशब्दस्पर्शानाम् मधुरं रसम् (पिबन्तः) आस्वादयन्तः (आ वहन्ति) रथिनम् जीवात्मानम् उद्वहन्ति, जीवनयात्रां कारयन्ति, (तत्र) तस्मिन् काले (श्रवांसि) यशांसि (कृण्वते) कुर्वन्ति, जनयन्ति। अयमेवार्थः ऋग्वेदे गायत्रेणोक्तः—य ईं॒ वह॑न्त आ॒शुभिः॒ पिब॑न्तो मदि॒रं मधु॑। अत्र॒ श्रवां॑सि दधिरे ॥ (ऋ० ५।६१।११) इति॥५॥
Essence
देहरथे नियुक्तानां मनोबुद्धिज्ञानेन्द्रियाणामेवैतत् कार्यं यत्तान्यात्मनो ज्ञाने साधनतां गत्वा तं यशोभाजं कुर्वन्ति ॥५॥
Subject
मरुतो देवताः। इन्द्रसहचारिणां मरुतां देहे कार्यं वर्ण्यते।
Footnote
१. यदीत्यव्ययं यत्प्रातिपदिकार्थे वर्तते। यदि यत्र देहे—इति भ०।