Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 355

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथः काण्वः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣢ पू꣣र्व्यो꣢ म꣣हो꣡नां꣢ वे꣣नः꣡ क्रतु꣢꣯भिरानजे । य꣢स्य꣣ द्वा꣢रा꣣ म꣡नुः꣢ पि꣣ता꣢ दे꣣वे꣢षु꣣ धि꣡य꣢ आन꣣जे꣢ ॥३५५॥

सः꣢ । पू꣣र्व्यः꣢ । म꣣हो꣡ना꣢म् । वे꣣नः꣢ । क्र꣡तु꣢꣯भिः । आ꣣नजे । य꣡स्य꣢꣯ । द्वा꣡रा꣢꣯ । म꣡नुः꣢꣯ । पि꣣ता꣢ । दे꣣वे꣡षु꣢ । धि꣡यः꣢꣯ । आ꣣नजे꣢ ॥३५५॥

Mantra without Swara
स पूर्व्यो महोनां वेनः क्रतुभिरानजे । यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥

सः । पूर्व्यः । महोनाम् । वेनः । क्रतुभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥३५५॥

Samveda - Mantra Number : 355
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(महोनाम्) पूजनीयानामपि। मह पूजायाम् इति धातोः असुन् प्रत्यये महसामिति प्राप्ते छान्दसो नुडागमः। (पूर्व्यः) पूर्वः, पूज्यतायां श्रेष्ठः। ‘पादार्घाभ्यां च। अ० ५।४।२५’ इत्यत्र चकारेणानुक्तसमुच्चयं मत्वा पूर्वादिभ्यः शब्देभ्यश्छन्दसि स्वार्थे यत् प्रत्ययं विहितवान् काशिकाकारः। (वेनः) मेधावी कान्तो वा। वेन इति मेधाविनाम, निघं० ३।१५। वेनतिः कान्तिकर्मा, निघं० २।६। (सः) असौ इन्द्रः परमैश्वर्यवान् जगदीश्वरः (क्रतुभिः) स्वकीयैः कर्मभिः दृश्यमानैः सृष्टिसञ्चालनादिभिः (आनजे) व्यज्यते। (यस्य द्वारा) यस्य जगदीश्वरस्य द्वारेण (मनुः) मनसा मननशीलः (पिता) देहस्य पालकः जीवात्मा (देवेषु) देहवर्तिषु प्रकाशकेषु मनोबुद्धिप्राणेन्द्रियादिषु (धियः) तत्तत्क्रियाः। धीः इति कर्मनाम। निघं० २।१। (आनजे) प्रापयति। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। द्वितीयपादान्ते ‘आनजे’ इत्यत्र व्यक्त्यर्थात् कर्मणि लिट्। चतुर्थपादान्ते च गत्यर्थात् णिजर्थगर्भात् कर्त्तरि लिट्, यत्र यद्वृत्तयोगाद् ‘यद्वृत्तान्नित्यम्। अ० ८।१।६६’ इति निघाताभावः ॥४॥२ अत्र नकारानुप्रासः, ‘नजे’ इत्यस्यावृत्तौ च यमकम् ॥४॥
Essence
जगति परिदृश्यमानाः सूर्यचन्द्रोदयऋतुचक्रप्रवर्तनादिक्रियाः कञ्चित् कर्तारं विनाऽनुपपद्यमानाः परमात्मानमनुमापयन्ति। देहस्वामी जीवात्मापि परमात्मन एव साहाय्येन देहस्थेषु मनोबुद्धिप्राणेन्द्रियादिषु संकल्पाध्यवसायप्राणनदर्शनस्पर्शनादिक्रियाः प्रवर्तयति ॥४॥
Subject
अथेन्द्रस्य परमात्मनो महिमानमाह।
Footnote
१. ऋ० ८।६३।१, ‘महोनां’ ‘मनुः पिता’ इत्यत्र क्रमेण ‘महानां’ ‘मनुष्पिता’ इति पाठः। २. महोनाम्, घकारस्य हकारापत्तिः छान्दसी। मघोनां मघवतां धनवतां मध्ये वेनः कान्तः, व्यक्तीकरोत्यात्मानम्। धियः यागविषयाः प्रज्ञाः बुद्धिरित्यर्थः, आनजे, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु इत्येतस्य गत्यर्थस्य अन्तर्णीतण्यर्थस्य चेदं रूपम्, आगमयति उत्पादयतीत्यर्थः—इति वि०। सः इन्द्रः, पूर्व्यः मुख्यः, महोनाम् महीयमानानां पूज्यानाम्। वेनः प्राज्ञः कमनीयो वा, क्रतुभिः कर्मभिः सर्वैः आनजे प्राप्यते। (अज गतौ)। यस्य इन्द्रस्य द्वारा द्वारभूतेन, मनुः प्रजापतिः, पिता पितृसमः, देवेषु इन्द्रियेषु, धियः प्रज्ञानानि, आनजे निक्षिप्तवान् (अज क्षेपणे)। इन्द्रो हि प्राणाः, तदधिष्ठितानि इन्द्रियाणि ज्ञानानि जनयन्ति। अतः इन्द्रस्य स्वभूतानि इन्द्रियाणि इत्युच्यन्ते—इति भ०।