Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 354

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢ह꣣मि꣡न्द्र꣢ꣳ शविष्ठ꣣ स꣡त्प꣢तिम् ॥३५४॥

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥३५४॥

Mantra without Swara
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रꣳ शविष्ठ सत्पतिम् ॥

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋती । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥३५४॥

Samveda - Mantra Number : 354
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शविष्ठ) बलिष्ठ ! (ऊतये) दुःखविघ्नादिभ्यो रक्षणाय (सुम्नाय) ऐहिकपारलौकिकसुखाय च वयम् (तुविकूर्मिम्२) बहूनां कर्मणां कर्तारम्। तुवीति बहुनाम निघं० ३।१। कूर्मिः करोतेर्बाहुलकादौणादिको मिः प्रत्ययः। (ऋतीषहम्३) ऋतीः शत्रुसेनाः सहते अभिभवतीति तम्, (सत्पतिम्) सदाचारिणां पालकम् (त्वा) त्वाम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानं राजानं वा (आवर्तयामसि) अनुकूलं प्रवर्तयामः, (यथा) येन प्रकारेण (ऊतये) शत्रुभ्यो रक्षणाय (सुम्नाय) यात्रासुखाय च (तुविकूर्मिम्) बहूनां धनानां व्यापारादिद्वारा उपार्जने साधनभूतम्, (ऋतीषहम्) वायुवृष्ट्याद्याघातसहम्, (सत्पतिम्) सताम् उपविष्टानां यात्रिणां पालनसाधनीभूतम् (रथम्) भूयान-जलयान-विमानादिकम्, जनाः आवर्तयन्ति प्रवृत्तं कुर्वन्ति ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥
Essence
यथा वातातपवर्षादिभ्यस्त्राणाय यात्रासुखाय च रथः प्राप्तव्यो भवति, तथैव रोगादिजन्येभ्यो दुःखेभ्यस्त्राणाय शिक्षाचिकित्सान्यायवर्णाश्रमधर्मप्रतिष्ठा- शान्तिस्थापनादिभिर्योगक्षेमसुखप्रदानाय च राजा, त्रिविधतापेभ्यस्त्राणाय मोक्षसुखप्रदानाय च परमात्मा प्राप्तव्यः ॥३॥
Subject
अथेन्द्रनाम्ना परमात्मा राजा च सम्बोध्यते।
Footnote
१. ऋ० ८।६८।१ ‘मिन्द्र शविष्ठ सत्पते’ इति पाठः। साम० १७७१। २. (तूविकूर्मिः) तुविर्बहुविधः कूर्मिः कर्मयोगो यस्य सः—इति ऋ० ३।३०।३ भाष्ये द०। ३. ऋतयः सेनाः गन्तृत्वात्। ता यः सहते अभिभवति सः ऋतीषाट्। तम् ऋतीषहम्। परकीयानां सेनानाम् अभिभवितारमित्यर्थः—इति वि०। ऋतीनाम् अरीणां सोढारम् अभिभवितारम्—इति भ०। हिंसकानाम् अभिभवितारम्—इति सा०।