Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 353

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः, शाकपूतो वा Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ नो꣢ वयोवयःश꣣यं꣢ म꣣हा꣡न्तं꣢ गह्वरे꣣ष्ठां꣢ म꣣हा꣡न्तं꣢ पूर्वि꣣ने꣢ष्ठाम् । उ꣣ग्रं꣢꣫ वचो꣣ अ꣡पा꣢वधीः ॥३५३

आ꣢ । नः꣣ । वयोवयश्शय꣢म् । व꣣योवयः । शय꣢म् । म꣣हा꣡न्त꣢म् । ग꣣ह्वरेष्ठा꣢म् । ग꣣ह्वरे । स्था꣢म् । म꣣हा꣡न्तं꣢ । पू꣣र्विनेष्ठा꣢म् । पू꣣र्विने । स्था꣢म् । उ꣣ग्र꣢म् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । अ꣣वधीः ॥३५३॥

Mantra without Swara
आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् । उग्रं वचो अपावधीः ॥३५३

आ । नः । वयोवयश्शयम् । वयोवयः । शयम् । महान्तम् । गह्वरेष्ठाम् । गह्वरे । स्थाम् । महान्तं । पूर्विनेष्ठाम् । पूर्विने । स्थाम् । उग्रम् । वचः । अप । अवधीः ॥३५३॥

Samveda - Mantra Number : 353
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! त्वम् (नः) अस्माकम् (वयोवयःशयम्) वयसि-वयसि, अन्ने-अन्ने, आयुषि-आयुषि, प्राणे-प्राणे वा शेते इति वयोवयःशयः तम्। वयस् इत्यन्ननाम। निघं० २।७। प्राणो वै वयः। ऐ–० ब्रा० १।२८। सोपपदात् शीङ् धातोः ‘अधिकरणे शेतेः। अ० ३।२।१५’ इत्यच् प्रत्ययः। (महान्तम्) परिमाणेन विशालं, सर्वव्यापकत्वात्, (गह्वरेष्ठाम्) गह्वरे हृदयगुहायां निलीनः तिष्ठतीति गह्वरेष्ठाः तम्, (महान्तम्) गुणैर्विशालम्, (पूर्विणेष्ठाम्) पूर्वैः पूर्वजैः कृतानि भक्तिस्तोत्रकाव्यादीनि पूर्विणानि तेषु वर्ण्यतया तिष्ठतीति तम्। पूर्वैः कृतमिनयौ च। अ० ४।४।११३’ इति इन प्रत्ययः। इन्द्रं परमात्मानम् (आ) अध्यात्मयोगेन आप्नुहि। तथा चोपनिषद्वर्णः—तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति। कठ० उप० २।१२ इति। किं च (उग्रं वचः१) ‘मारय, काटय, छिन्धि, भिन्धि’ इत्यादिकं हिंसोपद्रवजन्यं, ‘हा महत् कष्टं, महती शिरोवेदना, कथं जीवितं धारयेम’ इत्यादिकं व्याधिप्रकोपजन्यं, ‘क्षुधिताः स्मः, पिपासिताः स्मः, न कोऽप्यस्मान् पृच्छति, अन्नकणमेकं मुखे पातय, पानीयबिन्दुना रसनामार्द्रय’ इत्यादिकं क्षुत्पिपासाजन्यम्, एवमादिकम् उग्रं वचनम् (अपावधीः) अपजहि ॥२॥२ अत्र ‘वयो-वयः’ इत्यत्र छेकः, ‘महान्तं’ इत्यस्यावृत्तौ च लाटानुप्रासः ॥२॥
Essence
मनुष्यैर्महामहिमशालिनं जगदीश्वरमुपास्य सर्वत्र प्रचार्य जनजीवनात् सर्वप्रकारं हाहाकारं समाप्य समाजे राष्ट्रे जगति च शान्तिरानेया ॥२॥
Subject
अथ परमात्मानं जनसमाजं च प्रति मनुष्यस्य कर्त्तव्यमाह।
Footnote
१. उग्रं क्षुत्पिपासानिमित्तेन भयङ्करं वचः अस्मदीयं वचनम्, ‘अशनायापिपासे ह त्वा उग्रं वचः’ इति श्रुतेः, अपावधीः अपजहि—इति सा०। २. भरतस्वामिमते अत्र रयिः पुत्रो वा प्रार्थ्यते—“आहर नः अस्मभ्यम् रयिमिति शेषः। (वयोवयःशयम्) वयसि अन्ने यौवनादिषु वा गतं प्राप्तम्। शयतेः शयः। सर्वान्नसाधकमिति वा सर्वावस्थासु अनुगतमिति वा। (महान्तम्) अपरिमितम्। (गह्वरेष्ठाम्) गह्वरे गुहायां तिष्ठतीति गह्वरेष्ठाः। आतो मनिन्क्वनिब्वनिपश्च (पा–० ३।३।७४) इति चकारात् तिष्ठतेर्विट् प्रत्ययः—अनपह्वार्यमित्यर्थः। महान्तम् इति पुनर्वचनम् अर्थभूयस्त्वाय अत्यर्थं महान्तमिति। (पूर्विणेष्ठाम्) पूर्वसिद्धं पूर्विणम्। ‘गम्भीरेभिः पथिभिः पूर्विणेभिः’ (का० सं० १।६) इति निगमः। पूर्वेषु स्थितम् कुलक्रमागतमिति यावत्। पुत्रो वा अनया प्रार्थ्यते। वयोवयःशयमिति पूर्णायुषमित्युक्तं भवति। गह्वरेष्ठामिति रहस्येषु यज्ञेषु निष्ठितमिति। पूर्विणेष्ठामिति पुरातने मार्गे वेदात्मके निष्ठितमिति ॥ (उग्रं वचः) शत्रुभिरुद्गूर्णम् उद्यतं वचः अभिशंसनादिकम् (अपावधीः) अपजहि। ‘छन्दसि लुङ्लङ्लिटः’। पा० ३।४।६ इति लोडर्थे लुङ्” इति।