Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 352

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्व꣣ने꣡ न꣢रः ॥३५२॥

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भर । अरङ्गमा꣡य꣢ । अ꣣रम् । गमा꣡य꣢ । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ । ॥३५२॥

Mantra without Swara
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चादध्वने । अपश्चा । दध्वने । नरः । ॥३५२॥

Samveda - Mantra Number : 352
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जगदीश्वरपरः। हे मनुष्य ! त्वम् (पिपीषते) पिपासते, तव सख्यं प्राप्तुमिच्छते। पीङ् पाने दिवादिः, ततः सनि शतरि रूपम्। (विदुषे) सर्वज्ञाय, (अरङ्गमाय) अरं पर्याप्तं धनादिकं गमयति प्रापयति तस्मै, बहुधनादिवर्षकायेत्यर्थः, (जग्मये) सहायतार्थं सदैव अग्रगामिने। गत्यर्थाद् गम्लृ धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इति किः प्रत्ययः लिड्वद्भावश्च। (नरः) मनुष्यान्। नृ शब्दस्य द्वितीयाबहुवचने रूपम्। (अपश्चादध्वने२) न पश्चा पश्चात् दध्यति प्रेरयतीति तस्मै, सर्वदा विजयार्थं अग्रे गन्तुं समुत्साहयते इत्यर्थः, इन्द्राय जगदीश्वराय। दध्यति गतिकर्मा। निघं० २।१४, तत्र ‘दध्यति’ इत्यपि पाठान्तरम्। पश्चा इति ‘पश्च पश्चा च छन्दसि। अ० ५।३।३३’ इति पश्चादर्थे निपात्यते। (विश्वानि) सर्वाणि स्वकीयानि सख्यानि (प्रति भर) समर्पय, उपायनीकुरु। अथ द्वितीयः—आचार्यपरः। हे राजन् प्रजाजन वा ! त्वम् (पिपीषते) गुरुकुलस्य सञ्चालनाय धनादीनां पिपासते, (अरङ्गमाय३) विद्यादेः पर्याप्तं पारङ्गताय, (जग्मये) क्रियाशीलाय (अ-पश्चा-दध्वने) कदापि पश्चात् पदं न निदधानाय, किन्तु सदैव अग्रेसराय (विदुषे) विद्वद्वराय आचार्याय (विश्वानि) सर्वाण्युत्तमानि धनादीनि, विद्याप्रदानायाचारनिर्माणाय च (नरः) नॄंश्च, प्रतिभाशालिनो बालकांश्चेत्यर्थः (प्रतिभर) समर्पय ॥१॥४ अत्र श्लेषालङ्कारः ॥१॥
Essence
सर्वै राजप्रजादिभिर्जगदीश्वरेण सख्यं योजनीयम्, विद्वांसश्च धनधान्यादिना सत्कृत्य विद्योपदेशप्रदानाय निश्चिन्ताः कर्त्तव्याः ॥१॥
Subject
अथ चतुर्थोऽध्यायः। अथ जगदीश्वरमाचार्यं च प्रति जनानां कर्त्तव्यमाह।
Footnote
१. ऋ० ६।४२।१ ‘अपश्चाद्दध्वने नरे’ इति पाठः। साम० १४४०। २. क्वचित्तु ‘अपश्चादध्वने’ इति पाठः। तद् दध्यते रूपम्। अर्थस्तु स एव। ३. (अरङ्गमाय) यो विद्याया अरं पारं गच्छति तस्मै—इति ऋ० ६।४२।१ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं विद्वत्पक्षे व्याख्यातवान्।