Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 351

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः शंयुर्बार्हस्पत्यो वा Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यो꣢ र꣣यिं꣡ वो꣢ र꣣यि꣡न्त꣢मो꣣ यो꣢ द्यु꣣म्नै꣢र्द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢ सु꣣तः꣡ स इ꣢꣯न्द्र꣣ ते꣡ऽस्ति꣢ स्वधापते꣣ म꣡दः꣢ ॥३५१॥

यः꣢ । र꣣यि꣢म् । वः꣣ । रयि꣡न्त꣢मः । यः । द्यु꣣म्नैः꣢ । द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢꣯ । सु꣣तः꣢ । सः । इ꣣न्द्र । ते । अ꣡स्ति꣢꣯ । स्व꣣धापते । स्वधा । पते । म꣡दः꣢꣯ ॥३५१॥

Mantra without Swara
यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥

यः । रयिम् । वः । रयिन्तमः । यः । द्युम्नैः । द्युम्नवत्तमः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापते । स्वधा । पते । मदः ॥३५१॥

Samveda - Mantra Number : 351
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(रयिन्तमः२) रयिवत्तमः, अतिशयेन ऐश्वर्ययुक्तः (यः वः) तुभ्यम्। वस् इति बहुवचनस्य विहितो युष्मदादेशश्छन्दस्येकवचनेऽपि बहुशो दृश्यते। (रयिम्) ऐश्वर्यम्, ददातीति शेषः, (द्युम्नवत्तमः) अतिशयेन तेजोयुक्तश्च (यः द्युम्नैः) तेजोभिः, त्वामलङ्करोतीति शेषः, (सः) असौ (सुतः) हृदये प्रकटितः (सोमः) चन्द्रवदाह्लादकः सोमौषधिवद् रसागारश्च परमेश्वरः, हे (स्वधापते) अन्नपते, सांसारिकपदार्थानाम् उपभोक्तः इत्यर्थः, स्वधा इत्यन्ननाम, निघं० २।७। (इन्द्र) विद्वन् ! (ते) तुभ्यम् (मदः) आनन्दकरः (अस्ति) भवति ॥१०॥३ अत्र ‘रयिं-रयिं’ इति लाटानुप्रासः, ‘तमो-तमः’ ‘द्युम्नै-द्युम्न’ इति छेकानुप्रासः। यकार-सकार-तकार-मकाराणां पृथक्-पृथग् असकृदावृत्तौ वृत्त्यनुप्रासश्च ॥१०॥
Essence
हृदि प्रत्यक्षीकृतः परमेश्वरो योगिने सकलमाध्यात्मिकमैश्वर्यं ब्रह्मवर्चसमानन्दं च प्रयच्छतीत्यसौ सर्वैर्यत्नेन साक्षात्करणीयः ॥१०॥ अत्रेन्द्रस्य महिमगानवर्णनात्, तं प्रति श्रद्धारसादीनामर्पणात्, तत ऐश्वर्ययाचनात्, तदाह्वानात्, तत्स्तुत्यर्थ प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति विदाङ्कुर्वन्तु। इति चतुर्थे प्रपाठके द्वितीयार्धे प्रथमा दशतिः ॥ इति तृतीयेऽध्याये द्वादशः खण्डः ॥ समाप्तश्चायं तृतीयोऽध्यायः ॥
Subject
अथ परमेश्वरस्यानन्दकरत्वं वर्णयति।
Footnote
१. ऋ० ६।४४।१। तत्र ‘रयिं वो’ इत्यत्र ‘रयिवो’ इति निरनुस्वारः समस्तः पाठः। २. रयिशब्दात् व्रीह्यादित्वादिनिः—इति म०। तत्र ‘व्रीह्यादिभ्यश्च। अ० ५।२।११६’ इति पाणिनिसूत्रम्, व्रीह्यादिषु पाठश्चोन्नेयः। नलोपे ‘नाद् घस्य। अ० ८।२।१७’ इति नुडागमः। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘राजादिभिः किं कर्तव्य’मिति विषये व्याख्यातवान्।