Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 35

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
य꣣ज्ञा꣡य꣢ज्ञा वो अ꣣ग्न꣡ये꣢ गि꣣रा꣡गि꣢रा च꣣ द꣡क्ष꣢से । प्र꣡प्र꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं प्रि꣣यं꣢ मि꣣त्रं꣡ न श꣢꣯ꣳसिषम् ॥३५॥

य꣣ज्ञा꣡य꣢ज्ञा । य꣣ज्ञा꣢ । य꣣ज्ञा꣢ । वः । अग्न꣡ये꣢ । गि꣣रा꣡गि꣢रा । गि꣣रा꣢ । गि꣣रा । च । द꣡क्ष꣢꣯से । प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वयम्꣢ । अ꣣मृ꣡तम्꣢ । अ꣣ । मृ꣡तम्꣢꣯ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । प्रियम्꣢ । मि꣣त्रम्꣢ । मि꣣ । त्रम्꣢ । न । शँ꣣सिषम् ॥३५॥

Mantra without Swara
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥

यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्नये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम् । न । शँसिषम् ॥३५॥

Samveda - Mantra Number : 35
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः, (यज्ञायज्ञा) यज्ञे यज्ञे। सुपां सुलुक्’ अ० ७।३।३९ इति सप्तम्या आकारादेशः वीप्सायां द्वित्वम्। (वः) युष्मान् (अग्नये) सद्गुणप्रेरकाय परमात्मने, तमाराद्धुमित्यर्थः, नियुनज्मि इति शेषः। (गिरागिरा च२) वाचा वाचा च, प्रत्येकप्रभावजनकवाक्यावली- विन्यासेनेति भावः (दक्षसे३) वर्द्धितुम्, उन्नतिं कर्तुं, प्रेरयामि इति शेषः। वृद्ध्यर्थकाद् दक्षधातोः तुमर्थे सेसेनसे असेन्० अ० ३।४।९ इति तुमर्थे असेन्’ प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (वयम्) यूयं वयं च सर्वे मिलित्वा (अमृतम्) अमरणधर्माणम्, अविनश्वरम् (जातवेदसम्) सर्वज्ञं सर्वव्यापकं च परमेश्वरम् (प्रप्र)४ प्रशंसामः प्रशंसामः, भूयोभूयः प्रशंसाम इत्यर्थः। किञ्च, पृथगप्यहं तम् (प्रियम्) स्निग्धम् (मित्रं न) सखायमिव (प्रप्र शंसिषम्५) भूयो भूयः प्रशंसामि। शंसु स्तुतौ धातोर्लेटि रूपम् ॥१॥६ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्यैर्येऽपि नैत्यिका नैमित्तिका वा यज्ञा आयोज्यन्ते तेषु परमेश्वरोऽवश्यं स्मरणीय आराधनीयश्च। महापुरुषा जनान् प्रेरयेयुर्यद् यूयं सततं वृद्ध्यै समुन्नत्यै च प्रयतध्वम्। एवमुपदेशका उपदेश्याश्च सर्वे संभूयैकमत्येन सर्वज्ञस्य सर्वव्यापकस्य परमात्मनः स्तुतिं कुर्युः, ऐहलौकिकपारलौकिकाभ्युदयं च प्राप्नुयुः ॥१॥
Subject
अथ कश्चिद् विद्वानुपदेशको मनुष्यान् प्रेरयति।
Footnote
१. ऋ० ६।४८।१, य० २७।४२, साम० ७०३। २. च शब्दः समुच्चयादेरर्थस्याभावात् पादपूरण इति वि०। अस्माभिस्तु समुच्चयार्थ एव व्याख्यातः। ३. भरतस्वामी दक्षसे इति क्रियापदं मन्यते—चः चेदर्थे वर्तते, तद्योगाच्च दक्षसे इति आख्यातस्य उदात्तत्वम्, निपातैर्यद्यदि- हन्तकुविन्नेच्चेच्चण् कच्चिद्यत्रयुक्तम्’ पा० ८।१।३० इति। अन्यथा सर्वानुदात्ततैव स्यात् तिङ्ङतिङः पा० ८।१।२८ इति। पक्षे सायणोऽप्येवमाह। अस्माभिस्तु तुमर्थप्रत्ययत्वेन व्याख्यातम्। प्रत्ययस्य नित्त्वादाद्युदात्तता सिद्धैव। ४. प्रसमुपोदः पादपूरणे। अ० ८।१।१६ इति पादपूरणे द्वित्वमुक्तम्। वस्तुतस्तु प्र-प्र इति द्वित्त्वस्य न पादपूरणमात्रं प्रयोजनं, किन्तु प्रशंसाया भूयोभूयस्त्वं द्योत्यते। ५. वयं प्रशंसिषम् इत्यंसंगतेः विवरणकारेण वयमित्येतत् प्रथमाबहुवचनमेकवनस्य स्थाने द्रष्टव्यम् इत्युक्त्वा, भरतस्वामिसायणाभ्यां च प्रशंसिषम् इत्यत्र वचनव्यत्ययं मत्वा समाधानं कृतम्। अस्माभिस्तु व्यत्ययो निराकृतः। ६. दयानन्दर्षिणा मन्त्रोऽयं ऋग्भाष्ये यजुर्भाष्ये च विद्वत्कर्तव्यविषये व्याख्यातः।