Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 349

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ त्वा꣣ गि꣡रो꣢ र꣣थी꣢रि꣣वा꣡स्थुः꣢ सु꣣ते꣡षु꣢ गिर्वणः । अ꣣भि꣢ त्वा꣣ स꣡म꣢नूषत꣣ गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ ॥३४९॥

आ꣢ । त्वा꣣ । गि꣡रः꣢꣯ । र꣣थीः꣢ । इव । अ꣡स्थुः꣢꣯ । सु꣣ते꣡षु꣢ । गि꣣र्वणः । गिः । वनः । अभि꣢ । त्वा꣣ । स꣢म् । अ꣣नूषत । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ ॥३४९॥

Mantra without Swara
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः । अभि त्वा समनूषत गावो वत्सं न धेनवः ॥

आ । त्वा । गिरः । रथीः । इव । अस्थुः । सुतेषु । गिर्वणः । गिः । वनः । अभि । त्वा । सम् । अनूषत । गावः । वत्सम् । न । धेनवः ॥३४९॥

Samveda - Mantra Number : 349
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गिर्वणः) गीर्भिः वननीय इन्द्र परमात्मन् ! (सुतेषु) ज्ञानकर्मश्रद्धारूपेषु सोमरसेषु अभिषुतेषु सत्सु (गिरः) मदीयाः वाचः (त्वा) त्वाम् (आ अस्थुः) आश्रितवत्यः सन्ति, (रथीः इव) यथा रथवान् रथमाश्रयते तद्वत्। रथ शब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ। अ० ५।२।१२२’ इति वार्तिकेन मतुबर्थे ई प्रत्ययः। ताश्च मदीया गिरः (त्वा अभि) त्वामभिमुखीभूय (समनूषत) समनुविषुः, सम्यक् शब्दायन्ते, स्तुवन्तीत्यर्थः। संपूर्वात् णू स्तवने धातोर्लडर्थे लुङि ‘संज्ञापूर्वको विधिरनित्यः’ इति गुणादेशाभावे व्यत्ययेनात्मनेपदं च। (धेनवः) पयःपायिन्यः प्रीतियुक्ता वा। धेनुः धयतेर्वा धिनोतेर्वेति निरुक्तम्, ११।४३। (गावः) पयस्विन्यः (वत्सं न) वत्समभिमुखीभूय यथा शब्दायन्ते, हम्भारवं कुर्वन्ति तद्वत् ॥८॥ अत्र द्वयोरुपमयोः संसृष्टिरनुप्रासश्च ॥८॥
Essence
रथिनो रथमिव स्तोतॄणां गिरः परमात्मानमुपस्थाय धेनवो वत्समिव तमभिमुखीभूय तं प्रेम्णा स्तुवन्तु ॥८॥
Subject
अथ जगदीश्वरस्य स्तुतिविषयमाह।
Footnote
१. ऋ० ८।९५।१, ‘अभि त्वा समनूषतेन्द्र वत्सं न मातरः’ इत्युत्तरार्धपाठः।