Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 348

1875 Mantra
Devata- इन्द्रः Rishi- नीपातिथिः काण्वः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣡न्द्र꣢ याहि꣣ ह꣡रि꣢भि꣣रु꣢प꣣ क꣡ण्व꣢स्य सुष्टु꣣ति꣢म् । दि꣣वो꣢ अ꣣मु꣢ष्य꣣ शा꣡स꣢तो꣣ दि꣡वं꣢ य꣣य꣡ दि꣢वावसो ॥३४८॥

आ꣢ । इ꣣न्द्र । याहि । ह꣡रि꣢꣯भिः । उ꣡प꣢꣯ । क꣡ण्व꣢꣯स्य । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । दि꣣वः꣢ । अ꣣मु꣡ष्य꣢ । शा꣡स꣢꣯तः । दि꣡व꣢꣯म् । य꣣य꣢ । दि꣣वावसो । दिवा । वसो ॥३४८॥

Mantra without Swara
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

आ । इन्द्र । याहि । हरिभिः । उप । कण्वस्य । सुष्टुतिम् । सु । स्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो । दिवा । वसो ॥३४८॥

Samveda - Mantra Number : 348
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर ! त्वम् (हरिभिः) स्वकीयैः अध्यात्मप्रकाशकिरणैः सह। हरयः सुपर्णाः हरणा आदित्यरश्मयः इति निरुक्तम्, ७।२४। (कण्वस्य) मेधाविनो मम। कण्व इति मेधाविनाम, निघं० ३।१५। (सुस्तुतिम्) शोभनां स्तुतिम् (उप आयाहि) उपागच्छ। अथ स्तोता स्वात्मानमाह। हे (दिवावसो२) दीप्तिधनेच्छो मदीय अन्तरात्मन् ! त्वम् (शासतः) शासकस्य (अमुष्य) चर्मचक्षुर्भिरदृश्यमानस्य तस्य (दिवः) द्योतमानस्य परमात्मनः (दिवम्) प्रकाशकं तेजः (यय) प्राप्नुहि। या प्रापणे धातोः ‘याहि’ इति प्राप्ते छान्दसं रूपमिदम्। यद्वा यय धातुः पृथक् कल्पनीया ॥७॥ अत्र ‘दिवो, दिवं, दिवा’ इत्यत्र वृत्त्यनुप्रासोऽलङ्कारः ॥७॥
Essence
स्तुतिरस्माकं हार्दिकी चेत् तदा परमेश्वरस्तां शृणोत्येव। अस्माभिस्तत्सान्निध्यं प्राप्य तत्तेजसा तेजस्विभिर्भाव्यम् ॥७॥
Subject
अथेन्द्रनाम्ना जगदीश्वरमाह्वयति।
Footnote
१. ऋ० ८।३४।१, साम० १८०७। २. दिवावसो दीप्तधन—इति वि०। दीप्त्यावासक—इति भ०। दीप्तहविष्क इन्द्र—इति सा०।