Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 347

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡सा꣢वि꣣ सो꣡म꣢ इन्द्र ते꣣ श꣡वि꣢ष्ठ धृष्ण꣣वा꣡ ग꣢हि । आ꣡ त्वा꣢ पृणक्त्विन्द्रि꣣य꣢꣫ꣳ रजः꣣ सू꣢र्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥३४७॥

अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । इ꣣न्द्र । ते । श꣡वि꣢꣯ष्ठ । धृ꣣ष्णो । आ꣢ । ग꣣हि । आ꣢ । त्वा꣣ । पृणक्तु । इन्द्रिय꣢म् । र꣡जः꣢꣯ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥३४७॥

Mantra without Swara
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियꣳ रजः सूर्यो न रश्मिभिः ॥

असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो । आ । गहि । आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिभिः ॥३४७॥

Samveda - Mantra Number : 347
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जीवात्मपरः। हे (इन्द्र) मदीय अन्तरात्मन् ! (ते) तुभ्यम् (सोमः) ज्ञानोत्साहादिरसः (असावि) मया अभिषूयते। हे (शविष्ठ२) बलिष्ठ (धृष्णो) कामादिरिपूणां प्रसहनशील ! (आ गहि) त्वम् रसपानाय आगच्छ, अभिमुखो भवेत्यर्थः। (इन्द्रियम्) ज्ञानसाधनं मदीयं मनश्चक्षुरादिकम् (रश्मिभिः) ज्ञानप्रकाशैः (त्वा) त्वाम् (आ पृणक्तु३) आ पूरयतु। पृची सम्पकार्थे पठितः, आङ्पूर्वोऽत्र पूरणे वर्तते। (सूर्यः) आदित्यः (न) यथा (रश्मिभिः) स्वदीधितिभिः (रजः) पृथिव्यन्तरिक्षादिकं लोकम्। लोका रजांस्युच्यन्ते। निरु० ४।१९। आपृणक्ति आपूरयति ॥ यद्वा, सोमः अध्यात्मप्रसादप्रवाहः, निर्विचारवैशारद्येऽध्यात्मप्रसादः योग० १।४७ इति योगदर्शनोक्तः। (इन्द्रियम्) अध्यात्मप्रसादे समुत्पन्ना ऋतम्भरा प्रज्ञा, ‘ऋतम्भरा तत्र प्रज्ञा’ योग० १।४८ इत्युक्तेः। सा प्रज्ञा (इन्द्रम्) आत्मानं त्वाम् (रश्मिभिः) निर्बीजसमाधिप्रकाशैः (आ पृणक्तु) पूरयतु, इत्यर्थोऽध्यवसेयः ॥ अथ द्वितीयः—सेनाध्यक्षादिवीरजनपक्षे। हे (इन्द्र) वीर नरपुंगव सेनाध्यक्ष ! (ते) तुभ्यम्, तव पानायेत्यर्थः, अस्माभिः प्रजाजनैः (सोमः) सोमाद्योषधिरसः (असावि) अभिषुतोऽस्ति, तस्य पानाय हे (शविष्ठ) बलिष्ठ, (धृष्णो) शत्रुधर्षक वीर ! त्वम् (आगहि) आयाहि। (इन्द्रियम्) मनोरूपम् (त्वा) त्वाम् (रश्मिभिः) उत्साहकिरणैः (पृणक्तु) पूरयतु, यथा सूर्यः स्वकिरणैः भूमण्डलादिकं पूरयतीति। शिष्टं पूर्ववत् ॥६॥४ अत्रोपमालङ्कारः श्लेषश्च ॥६॥
Essence
सर्वैः स्वात्मानमुद्बोध्य ज्ञानकर्मयोगसिद्ध्यादिसञ्चयः कार्यः। तथैव राष्ट्रस्य कर्णधारैः सेनापत्यादिभिर्वीरतां सञ्चित्य राष्ट्ररक्षा विधेया ॥६॥५
Subject
अथेन्द्रं सोमपानायाह्वयति।
Footnote
१. ऋ० १।८४।१, साम० १०२८। २. (शविष्ठ) बहु शवो बलं विद्यते यस्य स शवस्वान्, सोऽतिशयितः तत्सम्बुद्धौ। अत्र शवश्शब्दाद् भूम्न्यर्थे मतुप्, तत इष्ठन्। ‘विन्मतोर्लुक्। अ० ५।३।६५’ इति मतुपो लुक्, ‘टेः’ अ० ६।४।१५५ अनेन टिलोपः। इति य० ६।३७ भाष्ये द०। ३. पृणिः पूरणार्थः। आपूरयतु त्वामित्यर्थः—इति वि०। भरतसायणयोरपि तदेव सम्मतम्। ४. (सोमः) उत्तमोऽनेकविधरोगनाशक ओषधिरसः। (पृणक्तु) सम्पर्कं करोतु। (इन्द्रियम्) मनः। इति मन्त्रस्यास्य ऋग्भाष्ये द०। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् सेनाध्यक्षपक्षे व्याख्यातवान्।