Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 346

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
श्रु꣣धी꣡ हवं꣢꣯ तिर꣣श्च्या꣢꣫ इन्द्र꣣ य꣡स्त्वा꣢ सप꣣र्य꣡ति꣢ । सु꣣वी꣡र्य꣢स्य꣣ गो꣡म꣢तो रा꣣य꣡स्पू꣡र्धि म꣣हा꣡ꣳ अ꣢सि ॥३४६॥

श्रु꣣धि꣢ । ह꣡व꣢꣯म् । ति꣣रश्च्याः꣢ । ति꣣रः । च्याः꣢ । इ꣡न्द्र꣢꣯ । यः । त्वा꣣ । सपर्य꣡ति꣢ । सु꣣वीर्य꣢स्य । सु꣣ । वी꣡र्य꣢꣯स्य । गो꣡म꣢꣯तः । रा꣣यः꣢ । पू꣣र्धि । महा꣢न् । अ꣣सि ॥३४६॥

Mantra without Swara
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाꣳ असि ॥

श्रुधि । हवम् । तिरश्च्याः । तिरः । च्याः । इन्द्र । यः । त्वा । सपर्यति । सुवीर्यस्य । सु । वीर्यस्य । गोमतः । रायः । पूर्धि । महान् । असि ॥३४६॥

Samveda - Mantra Number : 346
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) भक्तवत्सल परमात्मन् ! (यः) जनः (त्वा) त्वाम् (सपर्यति) आराध्नोति, तस्य (तिरश्च्याः) तिरः त्वां प्राप्तः सन् अञ्चति कर्मण्यो भवतीति तिरश्चीः तस्य, अथवा यः सुदीर्घं जटिलं मार्गमुपेक्ष्य शरवत् तिरोऽञ्चति स तिरश्चीः तस्य। यथाह श्रुतिः ‘नाहमतो॒ निर॑या दु॒र्गहै॒तत् ति॑र॒श्चता॑ पा॒श्वान्निर्ग॑माणि’ ऋ० ४।१८।२ इति। तिरः सतः इति प्राप्तस्य। निरु० ३।२०। ‘अञ्चेश्छन्दस्यसर्वनामस्थानम्।’ अ० ६।१।१७० इति विभक्तिरुदात्ता। (हवम्) आह्वानम् (श्रुधि) शृणु, पूरयेत्यर्थः। ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि। अ० ६।४।१०२’ इति हेर्धिः। ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। किं च, तस्मै (सुवीर्यस्य) सुपराक्रमयुक्तस्य। बहुव्रीहौ ‘वीरवीर्यौ च। अ० ६।२।१२०’ इति वीर्यशब्दस्याद्युदात्तत्वम्। (गोमतः) प्रशस्तधेनुपृथिवीवागादियुक्तस्य (रायः२) विद्यारोग्यचक्रवर्तिराज्यादिरूपस्य ऐश्वर्यस्य। ‘ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः।’ अ० ६।१।१७१ इति रैशब्दादुत्तरा विभक्तिरुदात्ता। (पूर्धि) पूर्ति कुरु। त्वम् (महान्) उदारहृदयः (असि) वर्त्तसे ॥५॥
Essence
यः श्रद्धावनतः सन् परमेश्वरं पूजयति, ततः प्रेरणां गृहीत्वा पुरुषार्थं करोति, सुदीर्घे मार्गे शक्तिं कालं चानपव्ययीकृत्य शरवत् तिरो लक्ष्यं प्रति गच्छति, तस्य सर्वाः सम्पदः सद्य एव हस्तगता भवन्ति ॥५॥
Subject
अथ पुनरपीन्द्रं धनानि प्रार्थयते।
Footnote
१. ऋ० ८।९५।४, साम० ८८३। २. पूरयतेः योगे करणे प्रायः षष्ठ्येव दृश्यते—इति भ०।