Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 345

1875 Mantra
Devata- इन्द्रः Rishi- अत्रिर्भौमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡दि꣢न्द्र चित्र म इ꣣ह꣢꣫ नास्ति꣣ त्वा꣡दा꣢तमद्रिवः । रा꣡ध꣣स्त꣡न्नो꣢ विदद्वस उभयाह꣣स्त्या꣡ भ꣢र ॥३४५॥

य꣢त् । इ꣣न्द्र । चित्र । मे । इह꣢ । न । अ꣡स्ति꣢ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । अद्रिवः । अ । द्रिवः । रा꣡धः꣢꣯ । तत् । नः꣣ । विदद्वसो । विदत् । वसो । उभयाहस्ति꣢ । आ । भ꣣र ॥३४५॥

Mantra without Swara
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥

यत् । इन्द्र । चित्र । मे । इह । न । अस्ति । त्वादातम् । त्वा । दातम् । अद्रिवः । अ । द्रिवः । राधः । तत् । नः । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥३४५॥

Samveda - Mantra Number : 345
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (चित्र२) अद्भुतगुणकर्मस्वभाव (अद्रिवः) वज्रिन्, वज्रधर इव दुष्कर्मणां दण्डप्रदातः (इन्द्र) जगदीश्वर ! (यत्) आध्यात्मिकं भौतिकं च धनम् (त्वादातम्३) अस्मत्कर्मपरिपाकवशाद्वा अस्माकं पौरुषहीनत्वाद्वा त्वया छिन्नम् अवरुद्धं सत्। दातमिति दैप् लवने धातोर्निष्ठायां रूपम्। त्वया दातं त्वादातम्। (मे) मम (इह) अत्र (नास्ति) न विद्यते (तत् राधः) तद् धनम्, हे (विदद्वसो४) ज्ञानधन, लब्धधन वा परमेश्वर ! त्वम् (उभयाहस्ति५) उभये हस्ताः प्रवर्तन्ते यथा तथा। ‘द्विदण्डादिभ्यश्च। अ० ५।४।१२८’ इति इच् प्रत्ययान्तोऽयं निपातः। चित्त्वादन्तोदात्तत्वम्। (आ भर) मह्यम् आहर ॥ निराकारस्यापि परमेश्वरस्य विषये उभयहस्ताभ्यां दानवर्णनं दानस्य प्रचुरत्वद्योतनार्थम् आलङ्कारिकं विज्ञेयम् ॥ अथ द्वितीयः—राजप्रजापरः। दुर्भिक्षमहाव्याधिनदीपूरादिविपत्पीडितो जनो राजानं याचते। हे (चित्र) अद्भुतदानशौण्ड, (अद्रिवः६) मेघवान् सूर्य इव राष्ट्रे धनादीनां वृष्टिकर्तः, अद्रिरिति मेघनाम। निघं० १।१०। (इन्द्र) विपद्विदारक राजन् ! (त्वादातम्) त्वया दातव्यम्। द्रष्टव्यम् अधः प्रदत्तं निरुक्तव्याख्यानम्। (यत्) यद् धनम् (मे) मम (इह) अस्मिन् संकटकाले (नास्ति) इदानीं यावत् त्वत्सकाशाद् न प्राप्तमस्ति, (तत् राधः) तद् धनम्, हे (विदद्वसो) सञ्चितधन राजन् ! त्वम् (उभयाहस्ति) उभयैरपि हस्तैः (आभर) मह्यं देहि, दत्त्वा च विपद्ग्रस्तस्य मम सहायतां कुरु ॥४॥७ यास्काचार्य इमामृचमेवं व्याख्यातवान्—यदिन्द्र चित्रं चायनीयं मंहनीयं धनमस्ति। यन्म इह नास्तीति वा त्रीणि मध्यमानि पदानि। त्वया नस्तद् दातव्यम्। अद्रिवन्, अद्रिरादृणात्येतेन, अपि वाऽत्तेः स्यात् ‘ते सोमादः’ इति ह विज्ञायते। राध इति धननाम राध्नुवन्त्येतेन। तन्नस्त्वं वित्तधन, उभाभ्यां हस्ताभ्याम् आहर। उभौ समुब्धौ भवतः इति। (निरु० ४।४) ॥ अत्र श्लेषालङ्कारः ॥४॥
Essence
आध्यात्मिकभौतिकधनविहीना जनाः पुरुषार्थं कुर्वन्तश्चेत् परमेश्वरं धनं याचन्ते तदा तत्कृपातस्तेषामुपरि धनवृष्टिरवश्यं भवति। एवं नरेश्वरेणापि संकटग्रस्तानां प्रजानां त्राणाय पुष्कलधनदानेन तेषां साहाय्यमवश्यं विधेयम् ॥४॥
Subject
अथेन्द्रो धनदानाय प्रार्थ्यते।
Footnote
१. ऋ० ५।३९।१ ‘म इह नास्ति’ इत्यत्र ‘मेहनास्ति’ इति पाठः। २. चित्र विचित्र पूज्य वा—इति वि०। पूजनीय—इति भ०। चायनीय—इति सा०। अद्भुतगुणकर्मस्वभाव—इति ऋ० ५।३९।१ भाष्ये द०। ३. त्वया दातव्यम्—इति वि०, सा०। त्वया देयम्—इति भ०। त्वया शोधितम्—इति ऋग्भाष्ये द०। दयानन्देन दैप् शोधने इत्यस्य क्तान्तं रूपं मत्वेदं व्याख्यातम्। ४. लब्धधन—इति वि०, सा०। वेदयति लम्भयति वसूनीति विदद्वसुः—इति भ०। ५. उभया, उभयशब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्० (अ० ७।१।३९)’ इति या आदेशः। उभाभ्यामित्यर्थः। हस्त्या, हस्त शब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्०’ इति या आदेशः। हस्ताभ्यामित्यर्थः—इति वि०। उभया हस्त्या उभाभ्यां हस्ताभ्यां संगृहीतम्—इति भ०। उभया हस्त्या उभाभ्यां हस्ताभ्याम्—इति सा०। एतत्सर्वम् ‘उभया उभये हस्ताः प्रवर्तन्ते यस्मिंस्तत्’—इति ऋग्भाष्ये द०। ६. (अद्रिवः) सूर्य इव विद्याप्रकाशक—इति ऋ० ५।३९।१ भाष्ये द०। ७. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं राजप्रजाविषये व्याख्यातवान्।