Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 344

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म् । शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य꣣ सा꣡द꣢ने ॥३४४॥

इ꣣म꣢म् । इ꣣न्द्र । सुत꣢म् । पि꣣ब । ज्ये꣡ष्ठ꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । म꣡द꣢꣯म् । शु꣣क्र꣡स्य꣢ । त्वा꣣ । अभि꣢ । अ꣣क्षरन् । धा꣡राः꣢꣯ । ऋ꣣त꣡स्य꣢ । सा꣡द꣢꣯ने ॥३४४॥

Mantra without Swara
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥

इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । अ । मर्त्यम् । मदम् । शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सादने ॥३४४॥

Samveda - Mantra Number : 344
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (इन्द्र) अध्यात्मसम्पत्प्रदातः परमैश्वर्यवन् परमात्मन् ! त्वम् (इमम्) प्रत्यक्षम् (ज्येष्ठम्) अतिशयेन प्रशस्यम्। इष्ठन् प्रत्यये ‘ज्य च। अ० ५।३।६१’ इति प्रशस्यस्य ज्यादेशः। (अमर्त्यम्२) दिव्यम्, (मदम्) स्तोतुरानन्दप्रदम् (सुतम्) अभिषुतमस्माकं श्रद्धारसरूपं सोमम् (पिब) आस्वादय। (ऋतस्य३) ध्यानयज्ञस्य। ऋतम् इति यज्ञनाम। निरु० ६।२२। (सादने) सदने, हृदये इत्यर्थः (शुक्रस्य) दीप्तस्य पवित्रस्य च श्रद्धारसस्य। शुच दीप्तौ, शुचिर् पूतीभावे। ऋजेन्द्र० उ० २।२९ इति रन् प्रत्यये नित्त्वादाद्युदात्ते प्राप्ते निपातनादन्तोदात्तत्वम्। (धाराः) प्रवाहसन्ततयः (त्वा अभि) त्वां प्रति (अक्षरन्) स्रवन्ति ॥ अथ द्वितीयः—गुरुशिष्यपरः। शिष्यं प्रति आचार्यस्योक्तिरियम्। हे (इन्द्र४) जिज्ञासो, विद्युद्वत् तीव्रबुद्धे मदीय शिष्य ! त्वम् (इमम्) मया प्रदीयमानम्, (ज्येष्ठम्) श्रेष्ठम्, (अमर्त्यम्) चिरस्थायिनम्। अमरमिति वाच्यार्थः, चिरस्थायिनमिति लक्ष्यार्थः, तेन अतिशयरूपोऽर्थो द्योत्यते। (मदम्) तृप्तिप्रदम् (सुतम्) अध्ययनाध्यापनविधिना निष्पादितम् ज्ञानरसम् (पिब) आस्वादय। यं ज्ञानरसम् (शुक्रस्य) पवित्रस्य (ऋतस्य) अध्ययनाध्यापनयज्ञस्य (सादने) गृहे, गुरुकुले इत्यर्थः (धाराः) मदीयाः वाचः। धारा इति वाङ्नाम। निघं० १।११। (त्वा अभि) त्वां प्रति (अक्षरन्) क्षारयन्ति, सिञ्चन्ति ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
सर्वे दुःखविदारकमानन्दसिन्धुं परमेश्वरं प्रति श्रद्धां हृदि निधाय तमुपासीरन्, गुरवश्च शिष्यान् प्रति प्रेम्णा प्रभाविशिक्षापद्धत्या विद्यां प्रदद्युः ॥३॥५
Subject
अथेन्द्रः सोमरसं पिबेदित्याह।
Footnote
१. ऋ० १।८४।४; साम० ९४९। २. अमर्त्यम् दिव्यम्—इति ऋ० १।८४।४ भाष्ये द०। अमर्त्यम् अमर्त्यताहेतुम्—इति भ०। अस्माकम् सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः—इति सा०। ३. ऋतस्य यज्ञस्य सादने गृहे यज्ञवास्तुनि—इति भ०। ४. (इन्द्र) योगैश्वर्यजिज्ञासो इति ऋ० १।१७६।६ भाष्ये, (इन्द्रम्) विद्युद्वत्तीव्रबुद्धिम् इति च ऋ० ६।४८।१४ भाष्ये द०। ५. एतन्मन्त्रव्याख्याने दयानन्दर्षिर्ऋग्भाष्ये “कश्चिदपि विद्यासुभोजनैर्विना वीर्यं प्राप्तुं न शक्नोति, तेन विना सत्यस्य विज्ञानं विजयश्च न जायते” इति भावार्थे प्राह।