Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 343

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥३४३॥

इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡नाम् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥३४३॥

Mantra without Swara
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥

इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । समुद्र । व्यचसम् । गिरः । रथीतमम् । रथीनाम् । वाजानाम् । सत्पतिम् । सत् । पतिम् । पतिम् ॥३४३॥

Samveda - Mantra Number : 343
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। (विश्वाः) सर्वाः (गिरः) वेदवाचः स्तुतिवाचो वा (समुद्रव्यचसम्) अब्धिवद् अन्तरिक्षवद् वा व्यचाः व्याप्तिर्यस्य तम्। समुद्र इत्यन्तरिक्षनामसु पठितम्। निघं० १।३। स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद् वर्ष्या अभि। ऋ० १०।९८।५ इति प्रामाण्यात् अब्धिराकाशश्चोभयमपि समुद्रशब्देनोच्यते। व्यचस् इति व्यचितिर्व्याप्तिकर्मणोऽसुन् प्रत्ययान्तम्। रक्-प्रत्ययान्तः समुद्रशब्दः प्रत्ययस्वरेणान्तोदात्तः, बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (रथीनाम्) रथवताम् (रथीतमम्) रथवत्तमम् पृथिवीसूर्यचन्द्रादीनाम् अनेकेषां रंहणवतां लोकानां सर्वातिशायिनमधीश्वरम् इत्यर्थः। रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१२२ वा० इति मतुबर्थे ई प्रत्ययः। (वाजानाम्) सर्वेषां बलानाम् (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां सज्जनानां सद्गुणानां सदाचाराणां वा रक्षकम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अवीवृधन्) वर्द्धयन्ति, प्रचारयन्तीत्यर्थः ॥२ अथ द्वितीयः—राजपक्षे। (विश्वाः) सर्वाः (गिरः) राष्ट्रवासिनां प्रजाजनानां वाचः (समुद्रव्यचसम्) जलपोतैः सागरे विमानैश्चान्तरिक्षे व्यचाः व्याप्तिर्यस्य तम्, (रथीनाम्) यानस्वामिनां मध्ये (रथीतमम्) अतिशयेन भूजलान्तरिक्षयानस्वामिनम्, (वाजानाम्) दैहिकमानसाऽऽत्मिकबलानाम् अन्नानां, युद्धानां वा (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां सत्पुरुषाणां सत्कर्मणां च रक्षकम् (इन्द्रम्) शत्रुविदारकं प्रजानां सुखप्रदं राजानम् (अवीवृधन्) वर्द्धयन्तु, उत्साहयन्तु। अत्र लोडर्थे लुङ् ॥२॥३ अत्र श्लेषालङ्कारः। ‘रथी-रथी’ इत्यत्र लाटानुप्रासः। ‘पतिम्-पतिम्’ इत्यत्र यमकम् ॥२॥
Essence
सर्वा वेदवाचः स्तुतिवाचश्च परमेश्वरस्यैव महिमानं गायन्ति। तथैव राष्ट्रे प्रजानां वाचः प्रजावत्सलस्य नृपतेर्महिमानं गायन्तु ॥२॥४
Subject
अथ पुनरिन्द्रस्य महिम्नो विषयमाह।
Footnote
१. ऋ० १।११।१। य० १२।५६, १७।६१ उभयोः ऋषिः सुतजेतृमधुच्छन्दाः; १५।६१ ऋषिः मधुच्छन्दाः। साम० ८२७। २. (समुद्रव्यचसम्) समुद्रेऽन्तरिक्षे व्यचा व्याप्तिर्यस्य तं सर्वव्यापिनमीश्वरम्। (रथीतमम्) बहवो रथा रमणाधिकरणाः पृथिवीसूर्यादयो लोका विद्यन्ते यस्मिन् स रथीरीश्वरः सोऽतिशयितस्तम्। (सत्पतिम्) यः सतां नाशरहितानां प्रकृत्यादिकारणद्रव्याणां पतिः स्वामी तमीश्वरम् (पतिम्) यः पाति रक्षति चराचरं जगत् तमीश्वरम्। इति ऋ० १।११।१ भाष्ये द०। ३. (समुद्रव्यचसम्) समुद्रे नौकादिविजयगुणसाधनव्यापिनं शूरवीरम्। (रथीतमम्) रथाः प्रशस्ता रणविजयहेतवो विमानादयो विद्यन्ते यस्य सोऽतिशयितः शूरस्तम्—इति तत्रैव द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्वेदभाष्ये परमेश्वरविषये शूरविषये च, य० १२।६१ भाष्ये कुमारकुमारीणां कर्त्तव्यविषये, य० १५।६१ भाष्ये राजप्रजाविषये, य० १७।६१ भाष्ये च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान्।