Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 342

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥३४२॥

गा꣡य꣢꣯न्ति । त्वा꣣ । गायत्रि꣡णः꣢ । अ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । अ꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । शतक्रतो । शत । क्रतो । उ꣢त् । वँ꣣श꣢म् । इ꣣व । येमिरे ॥३४२॥

Mantra without Swara
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥

गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो । शत । क्रतो । उत् । वँशम् । इव । येमिरे ॥३४२॥

Samveda - Mantra Number : 342
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शतक्रतो) बहुप्रज्ञ बहुकर्मन् इन्द्र परमैश्वर्यवन् परमात्मन् ! (गायत्रिणः) गायत्रं साम, तद्गानकर्तारः गायकाः, यद्वा यज्ञे उद्गातारो नाम ऋत्विजः (त्वा) त्वाम् (गायन्ति) गानविषयीकुर्वन्ति। (अर्किणः) वेदमन्त्रार्थाध्येतारो जनाः, यद्वा अर्चकाः होतारः अध्वर्यवश्च ऋत्विजः। अर्को देवो भवति यदेनमर्चन्ति। अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।४। अर्को देवो मन्त्रो वा येषामस्तीति ते अर्किणः। (त्वा) त्वाम् (अर्चन्ति) स्तुवन्ति। (ब्रह्माणः) ब्रह्मोपासकाः ब्राह्मणाः, यद्वा ब्रह्माणो नाम ऋत्विजः (त्वा) त्वाम् (वंशम् इव२) ध्वजदण्डमिव, (उद्येमिरे) उद्यच्छन्ति, उद्गमयन्ति, ध्वजवंशमुन्नयन्तः पताकिनः पताकां यथा वियति दोधूयन्ते तथा ते त्वत्कीर्तिं सर्वत्र प्रसारयन्तीत्यर्थः। उत्-पूर्वाद् यम उपरमे धातोः कालसामान्ये लिट् ॥१॥ यास्काचार्य इमं मन्त्रमेवं व्याख्यातवान्—गायन्ति त्वा गायत्रिणः, प्रार्चन्ति तेऽर्कमर्किणो, ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव। वंशो वनशयो भवति, वननाच्छ्रूयत इति वेति। निरु० ५।४ ॥ अत्रोपमालङ्कारः, ग्रहीतृभेदादेकस्यानेकधोल्लेखे उल्लेखालङ्कारश्च३। ‘गाय, गाय’ इति यमकम्, द्वितीये पादेऽनुप्रासः ॥१॥
Essence
साङ्गोपाङ्गं वेदानधीत्य यज्ञादिषु मन्त्रोच्चारणपूर्वकं सामगानसहितं च परमेश्वरं समभ्यर्चद्भिर्जनैस्तन्महिमा गगने प्रोत्तोलितः पवनान्दोलितो ध्वज इव सर्वत्र प्रसारणीयः ॥१॥४
Subject
तत्रादौ इन्द्रस्य महिमानं सर्वे गायन्तीत्याह।
Footnote
१. ऋ० १।१०।१, साम० १३४४। २. यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति, यथा वा सन्मार्गवर्तिनः पुत्राः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत्—इति सा०। यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशमुद्यमवन्तं कुर्वन्ति तथेति ऋग्भाष्ये द०। ३. क्वचिद् भेदाद् ग्रहीतॄणां विषयाणां तथा क्वचित्। एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते। सा० द० १०।३७ इति तल्लक्षणात्। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरार्चनविषय एव व्याख्यातवान्।