Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 341

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
को꣢ अ꣣द्य꣡ यु꣢ङ्क्ते धु꣣रि꣢꣫ गा ऋ꣣त꣢स्य꣣ शि꣡मी꣢वतो भा꣣मि꣡नो꣢ दुर्हृणा꣣यू꣢न् । आ꣣स꣡न्ने꣢षामप्सु꣣वा꣡हो꣢ मयो꣣भू꣡न्य ए꣢꣯षां भृ꣣त्या꣢मृ꣣ण꣢ध꣣त्स꣡ जी꣢वात् ॥३४१॥

कः꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । यु꣣ङ्क्ते । धुरि꣢ । गाः । ऋ꣣त꣡स्य꣢ । शि꣡मी꣢꣯वतः । भा꣣मि꣡नः꣢ । दु꣣र्हृणायू꣢न् । दुः꣣ । हृणायू꣢न् । आ꣣स꣢न् । ए꣣षाम् । अप्सुवा꣡हः꣢ । अ꣣प्सु । वा꣡हः꣢꣯ । म꣣योभू꣢न् । म꣣यः । भू꣢न् । यः । ए꣣षाम् । भृत्या꣢म् । ऋ꣣ण꣡ध꣢त् । सः । जी꣣वात् ॥३४१॥

Mantra without Swara
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥

कः । अद्य । अ । द्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीवतः । भामिनः । दुर्हृणायून् । दुः । हृणायून् । आसन् । एषाम् । अप्सुवाहः । अप्सु । वाहः । मयोभून् । मयः । भून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥३४१॥

Samveda - Mantra Number : 341
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। (कः) को जनः (अद्य) अस्मिन् दिने (शमीवतः) कर्मवतः, न तु अलसान्। शिमीति कर्मनाम। निघं० २।१। (भामिनः) तेजस्विनः, (दुर्हृणायून्२) दुष्टप्रसह्यान्, (अप्सुवाहः) अप्सु नदीधारासु इव बाधासु अपि ये वहन्ति तान्। अत्र ‘तत्पुरुषे कृति बहुलम्। अ० ६।३।१४’ इति सप्तम्या अलुक्। कृदुत्तरपदप्रकृतिस्वरः। (मयोभून्) सुखप्रापकान्। मयः इति सुखनाम। मयः भावयन्ति ये तान्। (गाः) ज्ञानेन्द्रिय-कर्मेन्द्रिय-प्राण-मनोबुद्धिरूपान् वृषभान् (ऋतस्य३) सत्यरूपस्य रथस्य (धुरि) धुरायाम् (युङ्क्ते) योजयिष्यति। (एषाम्) गतिशीलानाम्। एषन्ति गच्छन्तीति एषः तेषाम्, एष गतौ प्रयत्ने चेति धातोः क्विपि रूपम्। (एषाम्) एतेषां पूर्वोक्तानां इन्द्रियादिरूपाणां बलीवर्दानाम् (आसन्) आस्ये। ‘पद्दन्नोमास्० अ० ६।१।६३’ इति आस्यशब्दस्य आसन्नादेशः। ‘सुपां सुलुक्० अ० ७।१।३९’ इति सप्तम्या लुक्। (यः) यो जनः (भृत्याम्) भृतिम्। भृञ् भरणे धातोः ‘संज्ञायां समजनिपदनिषद०। अ० ३।३।९९’ इति उदात्तः क्यप्। (ऋणधत्४) ऋध्नोति, एतेषां पुष्ट्यै यथायोग्यम् उत्कृष्टं ग्राह्यविषयरूपं भोजनं प्रयच्छति। ऋध्नोतेः वृद्ध्यर्थाद् व्यत्ययेन श्नम्, लेटि रूपम्। (सः) असौ (जीवात्) प्रशस्तजीवनयुक्तो भविष्यति। जीवधातोर्लेटि रूपम् ॥ अत्र सत्यस्य धुरि इति वचनात् सत्ये रथारोपो व्यज्यते। सत्यरूपस्य रथस्य धुरि च सामान्या गावः बलीवर्दाः न योजयितुं शक्यन्ते इति गोरूपेषु आरोपविषयेषु आरोप्यमाणानि इन्द्रियादीनि गृह्यन्ते। इन्द्रियादिषु गोत्वारोपादेव तेषां मुखमपि कल्प्यते। अतिशयोक्तिरलङ्कारः ॥ अथ द्वितीयः—राष्ट्रपरः। (कः) को जनः (अद्य) संकटमये दिवसे (शिमीवतः) कर्मशूरान्, (भामिनः) क्षात्रतेजोयुक्तान्, (दुर्हृणायून्) दुष्प्रधृष्यान्, (अप्सुवाहः) युद्धयात्रायां नदीसागरादीनांजले रथवहनशीलान्, (मयोभून्) शत्रून् विजित्य राष्ट्रवासिभ्यः सुखप्रदायकान् (गाः) गतिशीलान् सैनिकान् (ऋतस्य) राष्ट्रयज्ञस्य (धुरि) रक्षाधुरि (युङ्क्ते) नियोजयिष्यति ? जनराड् नृपतिरेव नियोजयिष्यतीति भावः। (आसन्नेषाम्) आसनि तूणीररूपे आस्ये एषः इषवो येषां ते आसन्नेषाः, तेषाम् सञ्चितप्रभूतशस्त्रास्त्राणामित्यर्थः। ऋग्वेदे ‘आसन्निषून्५’ इति पाठादयमर्थः पदपाठमननुसरन्नपि कृतः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। (एषाम्) एतेषां सैनिकानाम् (यः) राजा (भृत्याम्) वेतनम् (ऋणधत्) काले काले वर्द्धयेत् (सः) असौ राजा (जीवात्) प्रजाभिः सह चिरं जीवेत् शत्रुविजयेन ॥१०॥ मन्त्रेऽस्मिन्नध्यात्माधिराष्ट्ररूपोभयविधार्थयोर्वाच्यत्वाच्छ्लेषालङ्कारः ॥१०॥
Essence
सत्यस्य ज्ञानार्थं प्रसारार्थं चात्ममनोबुद्धिप्राणेन्द्रियाणां यथायोग्यमुपयोगो जनैः कार्यः। किञ्च राष्ट्रशासकेन नृपतिना राष्ट्ररक्षकाः सैनिकाः पुष्कलवेतनप्रदानादिना सत्कार्याः ॥१०॥ अत्र तार्क्ष्यनाम्ना परमेश्वरादेः स्मरणाद्, इन्द्रपर्वतयुगलस्य स्तुतिपूर्वकं चेन्द्रस्य स्तवनात्, तत्सखित्वयाचनाद्, इन्द्रियरूपाणां गवां महत्त्ववर्णनाद्, नृपसैनिकाद्यर्थानां चापि सूचनाद् एतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम् ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धे पञ्चमी दशतिः ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धः ॥ इति तृतीयेऽध्याये एकादशः खण्डः ॥
Subject
अथेन्द्रदेवताकेऽपि मन्त्रे ऋतप्रियत्वादिन्द्रस्य ऋतविषयमाह।
Footnote
१. ऋ० १।८४।१६ ‘आसन्निषून् हृत्स्वसो’ इति पाठः। अथ० १८।१।६ ऋषिः अथर्वा, देवता यमः, पाठः ऋग्वेदवत्। २. शत्रुभिर्दुर्लभं हृणं प्रसह्यकरणं येषां ते दुर्हृणास्त इवाचरन्तीति दुर्हृणायवस्तान्। ‘क्याच्छन्दसि’ इत्युः प्रत्ययः—इति ऋ० १।८४।१६ भाष्ये द०। ३. ऋतस्य सत्यस्य सर्वगतस्य वा इन्द्रस्य—इति वि०। ऋतस्य सत्यस्य इन्द्रस्य—इति भ०। ऋतस्य गच्छतः इन्द्रसम्बन्धिनो रथस्य—इति सा०। ४. ऋणधत्, ऋण वृद्धौ इत्यस्येदं रूपम्—इति वि०। ऋध्यात् समर्धयेत्—इति भ०। ५. आ॒सन्ऽइ॑षून्—इति पदपाठः। ‘आसन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान्’—इति ऋ० १।८४।१६ भाष्ये सा०।